तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 587, कुल 914 में से
संदर्भ में पढ़ेंपूर्वस्मिन्पादे चेतनाद्ब्रह्मणो विलक्षणमचेतनं जगज्जायत इत्यत्र सांख्यान्प्रति लोक-
सिद्धं गोमयवृश्चिकादिनिदर्शनमभिहितम् । तावता सांख्यैः क्रियमाणस्याऽऽक्षेपस्य
परिहृतत्वात्स्वपक्षसाधनं संपन्नम् । परपक्षदूषणं चास्मिन्पादे प्रक्रम्य पूर्वाधिकरणे
सांख्यमतं दूषितम् । इतःपरं वैशेषिकमतं दूषयितव्यम् । तन्मतस्य च प्रक्रियाबाहुल्या-
त्त्वात्तद्वासनावासितः कश्चित्पुरुषस्तत्प्रक्रियासिद्धं विलक्षणोत्पत्तिदृष्टान्तमन्तरेण ब्रह्म-
कारणवादं न बहु मन्यते । अतो विसदृशोत्पत्तौ काणादमतसिद्धो दृष्टान्तोऽस्ति
न वेति विचार्यते । नास्तीति तावत्प्राप्तम् । यतः शुक्लः पटः शुक्लेभ्य एव तन्तुभ्यो
जायते न तु रक्तेभ्यस्तस्मान्नास्तीति प्राप्ते ब्रूमः—अस्त्येव विसदृशोत्पत्तौ दृष्टान्तः
तथा हि । परमाणवः पारिमाण्डल्यपरिमाणयुक्ताः । न त्वणुपरिमाणयुक्ताः । द्वाभ्यां
परमाणुभ्यामणुपरिमाणर