तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 585, कुल 914 में से
संदर्भ में पढ़ें५८० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० ८ अनु०२
प्राण्यनुष्ठितकर्मादिमपेक्ष्येशः प्रवर्तते ।
नातो वैषम्यनैर्घृण्ये संसारस्तु न चाऽऽदिमान् ” ॥ इति ।
ईश्वरो देवादीनत्यन्तसुखिनः सृजति पश्वादीनत्यन्तदुःखिनो मनुष्यांश्च मध्यमान्
तारतम्येन पुरुषविशेषेषु सुखदुःखे सृजन्नीश्वरः कथं विषमो न स्यात् । कथं च नीचैरप्य
त्यन्तजुगुप्सितं देवतिर्यङ्मनुष्याद्यशेषजगदुपसंहारं कुर्वन्निर्घृणो न भवेत् । तस्माद्वैषम्य
नैर्घृण्ये प्रसज्येयातामिति प्राप्ते ब्रूमः— न तावदीश्वरस्य वैषम्यप्रसङ्गोऽस्ति । प्राणिना-
न्तममध्यमाधमलक्षणवैषम्ये तत्तत्कर्मणामेव प्रयोजकत्वात् । न चैतावतेश्वर
स्वातन्त्र्यहानिः । अन्तर्यामितया कर्माध्यक्षत्वात् । न त्वेवं सति *घट्टकुटीप्रभा
न्याय आपद्यते । ईश्वरे वैषम्यं परिहर्तुं कर्मणां वैषम्ये हेतुत्वमुक्त्वा पुनरपीश्वर
स्वातन्त्र्यसिद्धये तत्कर्मनियामकतोऽभ्युपगम्यमाने सत्यन्ततो गत्वा चेश्वरस्यैव वैषम्य
मुत्वप्रसङ्गात् । नायं दोषः । नियामकत्वं नाम तत्तददृष्टशक्तीनामव्यवस्थापरिहारमात्रप्र
शक्तयस्तु मायाशरीरभूताः । न तु तासामुत्पादक ईश्वरः । ततः स्वशक्तिवशात्तत्तत्व
णां वैषम् हेतुत्वेऽपि न व्यवस्थापकस्येश्वरस्य वैषम्यप्रसङ्गः । संहारस्य सुषुप्तिवददुःख
नकत्वात्प्रत्युत सर्वक्लेशनिवर्तकत्वाच्च । ततः सघृणत्वमेव । नन्ववान्तरसृष्टिषु पूर्वपूर्व
मपेक्ष्या सृजत ईश्वरस्य वैषम्याभावेऽपि प्रथमसृष्टौ पूर्वकर्मासंभवाद्वैषम्यदोषस्तद्व
इति चेन्न । सृष्टिपरम्पराया अनादित्वात् । नान्तो न चाऽऽदिरित्यादिशास्त्रा
तस्मान्न कोऽपि दोषः ।
× त्रयोदशाधिकरणमारचयति—
“नास्ति प्रकृतिता यद्वा निर्गुणस्यास्ति नास्ति सा ।
मृदादेः सगुणस्यैव प्रकृतित्वोपलम्भनात् ॥
भ्रमाधिष्ठानताऽस्माभिः प्रकृतित्वमुपेयते ।
निर्गुणेऽप्यस्ति जात्यादौ सा ब्रह्म प्रकृतिस्ततः ॥
प्रकृतित्वं नाम कार्यकारणेन विक्रियमाणत्वम् । तच्च लोके सगुण एव मृदा
पलब्धम् । अतो निर्गुणस्य ब्रह्मणः कथं प्रकृतितोते प्राप्ते ब्रूमः— यद्यपि प्रक्रिय
नयेतिव्युत्पत्त्या विक्रियमाणत्वं प्रतीयते तथाऽपि तद्विक्रियमाणत्वं द्वेधाऽपि संभव
क्षीरादिवत्परिणामित्वेन वा रज्ज्वादिवद्भ्रमाधिष्ठानत्वेन वा । तत्र निर्गुणस्य पर्ि
- यथा कश्चित्सार्यं पान्थो द्रव्यलिप्सुर्घट्टपालभिया ( घट्टः पर्वतीयविषममार्गः ) तान्नप्रता
पलायनमार्गेभ्रंशात्पुनरपि प्रातर्घट्टकुट्यामेवाऽऽयातीति । × सर्वधर्मोपपत्तेश्च—ब्र० सू० अ० १
१ अ० १३ सू० ३५ ।
१ क. घ ङ. गत्वेश्वरस्यैव ।