तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 578, कुल 914 में से
संदर्भ में पढ़ें[प्रपा०८अनु०२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५७३
तत्रैव पुनरपि परमाण्वादिकारणानां श्रौतत्वनिराकरणेन स एव *समर्थितः—
“अण्वादेरपि हेतुत्वं श्रुतं ब्रह्मण एव वा ।
वटधानादिदृष्टान्तादण्वादेरपि तच्छ्रुतम् ॥
शून्यान्वादिष्वेकबुद्ध्या सर्वबुद्धिर्न युज्यते ।
स्युर्ब्रह्मण्यपि धानाद्यास्ततो ब्रह्मैव कारणम् ।
दृष्टान्तो विषयः । तत्र किं ब्रह्मण इव परमाणुशून्यादीनामपि कचिज्जगत्कारणत्वं
श्रुतमस्ति । अथवा सर्वत्र ब्रह्मण एव कारणत्वं प्रतिनियतमिति संशयः । अण्वादे-
रपि कारणत्वं श्रुतम् । कुतः । वटधानादिदृष्टान्तश्रवणात् । तथा हि—छान्दोग्ये
षष्ठाध्याये श्वेतकेतुं प्रत्युपदिशन्नुद्दालकः सूक्ष्मतत्त्वे स्थूलस्य जगतोऽन्तर्भावं प्रतिपा-
दयितुं महावृक्षगर्भितानि वटबीजानि दृष्टान्तत्वेनोदाजहार । अतस्तत्सदृशाः परमा-
णवो दार्ष्टान्तिकत्वेन श्रुता भवन्ति । शून्यस्य च—“असद्वा इदमग्र आसीत् ” इति
साक्षादेव कारणत्वं श्रुतम् । “स्वभावमेके कवयो वदन्ति कालं तथाऽन्ये” इति
स्वभावकालपक्षौ श्रुतौ । तस्मात्परमावादीनामपि श्रौतं कारणत्वमिति प्राप्ते
ब्रूमः—एकविज्ञानेन सर्वविज्ञानं शून्यादिमतेषु नोपपद्यते । शून्यादिभिरजन्यस्य ब्रह्मणः
शून्यादिज्ञानेनाज्ञातत्वात् । धानादिदृष्टान्तस्तु ब्रह्मणोऽपीन्द्रियागम्यतया सूक्ष्मत्वादुप-
पद्यते । असच्छब्दस्य नामरूपराहित्याभिप्रायश्चतुर्थाधिकरणे वर्णितः। स्वभावकालपक्षौ
पूर्वपक्षत्वेन श्रुत्योपन्यस्तौ । तस्माद्ब्रह्मैव श्रुत्यभिहितं जगत्कारणं न परमाण्वादीति
सिद्धम्” ।
तस्यैतस्य समन्वयस्य स्मृतिविरोधतर्कविरोधी द्वितीयाध्यायस्य प्रथमपादे त्रयो-
दशाधिकरणैः परिहृतौ । तत्र संग्रहकारः +प्रथमाधिकरणमारचयति—
“सांख्यस्मृत्याऽस्ति संकोचो न वा वेदसमन्वये ।
धर्मे वेदः सावकाशः संकोच्योऽनवकाशया ॥
प्रत्यक्षश्रुतिमूलाभिर्मन्वादिस्मृतिभिः स्मृतिः ।
अमूला कापिली बाध्या न संकोचोऽनया ततः ॥
अस्मिन्पादे सर्वेष्वधिकरणेषु पूर्वाध्यायोक्तः समन्वयो विषयः । तत्रास्मिन्नधिकरणे
वेदैकस्य समन्वयस्य सांख्यस्मृत्याऽभिसंकोचोऽस्ति न वेति संशयः । संकोचोऽस्तीति
तावत्प्राप्तम् । कुतः सांङ्ख्यस्मृतेरनवकाशत्वेन प्रबलत्वात् । सांख्यस्मृतिर्हि वस्तु-
- एतेन सर्वे व्याख्याता व्याख्याता - ब्र० सू अ० १ पा० ४ अ० ८ सू० २८ । + स्मृत्यन-
वकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात्-ब्र०सू०अ० २ पा० १ अ० १ सू० १ ।
१ क. ग. ङ. .'ति सिद्धान्तस्त्यै' ।