तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 552, कुल 914 में से
संदर्भ में पढ़ें[प्रपा०८अनु०२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५४७
“ स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति ” इति । ननु ग्रामं प्राप्नोतीत्यत्र
गतिपूर्वको ग्रामसंयोगः प्राप्तित्वेन प्रसिद्धः । अतो यथा सगुणब्रह्मोपासको मूर्धन्यना-
ड्योत्क्रम्यार्चिरादिमार्गेण गत्वा ब्रह्मलोकं प्राप्नोति, तथाऽत्रापि ब्रह्मप्राप्तिर्वक्तव्येति चेन्न ।
उत्क्रान्तिगत्योर्निषेधात् । “ न तस्य प्राणा उत्क्रामन्ति ” इति श्रुत्योत्क्रान्तिर्निषि-
ध्यते । गतिनिषेधश्च स्मर्यते---
“ सर्वभूतात्मभूतस्य सम्यग्भूतानि पश्यतः ।
देवा ऽमार्गे विमुह्यन्ति ह्यपदस्य पदैषिणः ” ॥ इति ।
अयमर्थः । सर्वेषां प्राणिनामात्मभूतो यो ब्रह्मवित्सोऽयं सर्वान्प्राणिनः स्वात्मत्वेन
सम्यक्पश्यति तस्य मार्गे देवा अपि मुह्यन्ति । उत्तरदक्षिणाधोमार्गेष्वातिवाहिकत्वेना-
वस्थिता ये देवाः सन्ति ते सर्वेऽपि मार्गत्रयगन्तॄणामुपासकानामिष्टापूर्तानुष्ठायिनामिष्टा-
पूर्तानुष्ठायिनां पापिनां पदं गतिं यथा पश्यन्ति तथा ब्रह्मविदोऽपदस्य गतिरहितस्य
पदैषिणो गतिमन्विच्छन्तस्तामदृष्ट्वा भ्रान्ता भवन्तीति । तस्मादस्य ब्रह्म प्राप्ति(प्त)त्वेनो-
पचर्यत इति । तं च विलयं श्रुतिर्दर्शयति--“ न तस्य प्राणा उत्क्रामन्त्यत्रैव समव-
लीयन्ते ब्रह्मैव सन्ब्रह्माप्येति ” इति । बोधात्पुराऽपि ब्रह्मैव सन्नज्ञानाज्जीवत्वभ्रमं प्राप्य
पुनर्बोधादूर्ध्वमनुभवेनापि ब्रह्म यथा भवति तथा स्वयमप्येति विलीयते स्वकीयो जीव-
त्वोपाधिर्विनश्यतीत्यर्थः । यथा स्वकण्ठेऽवस्थितमाभरणमज्ञात्वाऽन्यत्रान्विष्यन्केनचिद्बो-
धितो हस्तेन संस्पृश्येदानीमेतत्प्राप्तमित्युपचरति, तद्वदौपचारिक्री ब्रह्मप्राप्तिर्द्रष्टव्या । तदेवं
ब्रह्मस्वरूपविषया मीमांसोपरिष्टाद्भविष्यति । वेदनविषया परप्राप्तिविषया चोदाह्रियते ।
यद्यपि पूर्वत्र सर्वत्र तत्तदनुवाकस्यावसान एव तत्तद्विषया मीमांसोदाहृता, तथाऽप्यत्र
ब्रह्मविदित्यारभ्येत्युपनिषदित्यन्तस्यानुवाकस्यातिप्रौढतया तन्मध्ये मीमांसितव्यानाम-
र्थानां बहुत्वार्द्बुद्धिसौकर्याय तत्तद्वाक्यसमीप एव तत्तन्मीमांसोदाह्रियते । या तु देश-
विशेषे ब्रह्मविदित्यारभ्य नवानुवाका इति प्रसिद्धिः सा त्वध्यापकैः पाठसौकर्याय परि-
कल्पिता, न त्वर्थानुसारिणी । ते हि तदप्येष श्लोको भवतीत्यस्याः प्रतिज्ञायाः श्लोक-
पाठस्य च मध्ये तं तमनुवाकं समापयन्ति । न चैतद्युक्तम् । कस्याचिदप्यर्थस्य पर्यवसा-
नाभावात् । तस्मादितरदेशगताध्यापकप्रसिद्ध्या च कृत्स्नोऽप्ययमेक एवानुवाकः । एतदेवा-
भिप्रेत्य काण्डानुक्रमणिकाभाष्यकारो वारुण्या उपनिषदः “ सह नाववतु ” “ ब्रह्मविदा-
प्नोति ” “ भृगुर्वै वारुणिः ” इत्यनुवाकत्रयात्मकत्वं व्याजहार । भारद्वाजसूत्रे मुमूर्षोः
कर्णे जप्यत्वेनैवमुदाहृतम्-“ ब्रह्मविदाप्नोति परम्, भृगुर्वै वारुणिरित्येतावनुवाकौ ब्रह्म-
विदो दक्षिणे कर्णे जपति ” इति । ब्रह्मविदित्यारभ्य भृगुरित्यन्तः (तः) प्राक्तनो ग्रन्थ
१ ड. ‘मार्गेऽपि मु’ । २ ग. घ. ‘प्तिनां पा’ । ३ घ. ‘मेकः स ए’ । ४ ड. जपते’ ।