सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 549, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 549

द्द्रष्टव्यम् । अत्र मनसैवेत्येवकारेण चक्षुरादिबाह्येन्द्रियाणि व्यावृत्यानुशब्देन शा-
मङ्गी करोति । नच शास्त्रगम्यत्वे धर्माधर्मयोरिव परोक्षबोधः शङ्कनीयः । दृष्टा-
न्तस्य विषमत्वात् । अपरोक्षस्वभावं हि ब्रह्म, “ यत्साक्षादपरोक्षाद्ब्रह्म ” इति श्रुतेः
धर्माधर्मौ परोक्षस्वभावाविति वैषम्यम् । स्वतोऽपरोक्षेऽपि ब्रह्मण्यस्ति परोक्षत्वभ्रम इ-
चेत्सत्यम् । अत एव श्रुतिर्जगत्कारणत्वेनोपलक्षितं ब्रह्म सत्यज्ञानाद्यवान्तरवाक्येन
बोधयित्वा पुनः परोक्षत्वभ्रमनिवृत्त्यर्थं तस्य ब्रह्मणो महावाक्येन प्रत्यगात्मना ता-
त्स्म्यं बोधयति । तथा च वाजसनेयिनः । पठन्ति-“य एवं वेदाहं ब्रह्मास्मीति स
सर्वं भवति” इति । अत्रापि प्रत्यगात्मतादात्म्यमेवाभिप्रेत्य यो वेद निहितं गुहा-
मिति वाक्येन च प्रत्यगात्मनि परोक्षत्वभ्रमः शङ्कितुमपि न शक्यः । आबाल-
पालं सर्वैरपि प्राणिभिः प्रत्यगात्मनोऽहमित्यनेन मानसप्रत्यक्षेण विस्पष्टं व्यवा-
माणत्वात् । यस्य *प्रत्यगात्मनः संबन्धिभिश्चक्षुरादीन्द्रियैर्गृह्यमाणा घटा-
+जडा अपि लिङ्गादिव्यवधानमन्तरेण प्रतीयमानत्वादपरोक्षा इत्युच्यन्ते, तस्य प्र-
त्यात्मनो व्यवधानशङ्कारहितस्य चिद्रूपस्य स्वप्रकाशस्य सर्वावभासकस्य
भ्रान्त्याऽपि कथं परोक्षत्वमाशङ्कयेत । स्वप्रकाशत्वं सर्वावभासकत्वं चाऽऽम्नायते
“ तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ” इति । एवं सति पर-
सर्वावभासकस्य चिद्रूपस्य व्यवहारदशायां चाहंप्रत्ययेन भासमानस्य प्रत्यगा-
वास्तवं भ्रान्तं वा परोक्षत्वं न शङ्कितुं शक्यते । देहादिभ्यः पञ्चभ्यः कोशे-
विविक्तः साक्षी परोक्ष इति चेन्न । तस्यात्यन्तापरोक्षत्वात् । यदा तिरोधायकत्व-
वनोपेतेर्गाडेर्देहादिभिः संयुक्तस्याप्यपरोक्षत्वमभ्युपगम्यते तदा तत्संयोगरहितोऽप-
इति किमु वक्तव्यम् । अतोऽपरोक्षप्रत्यगात्मतादात्म्याच्छास्त्रगम्यमपि ब्रह्मापरो-
,मनसाऽवगम्यते । ननु मनसाऽवगतस्य ब्रह्मत्वमेव नास्ति । तथा च तलवका-
आम्नन्ति--
“यन्मनसा न मनुते येनाऽऽहुर्मनो मतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ” ॥ इति ।
अयमर्थः । यत्साक्षिचैतन्यं सर्वो जनो मनसा विषयीकृत्यावगन्तुं न शक्तो
येन तु साक्षिचैतन्येन तन्मनः प्रकाशितमि×त्यनेन च वेदरहस्याभिज्ञाः कथ-
.तदेव साक्षिचैतन्यं ब्रह्मेति हे शिष्य त्वं विजानीहि । उपासकास्तु स्वातिरिक्तं
घटादिविदमित्यनेन दृश्यत्वाकारेण भासमानं शास्त्रसिद्धं जगत्कारणं यद्ब्रह्मो-

  • कैमुत्यन्यायेन परोक्षत्वाभावं साधयति । + व्यवधानशङ्कोपेता अपीति शेषः । x
    प्रकारेणेत्यर्थः ।
    १ ग. 'क्षभ्र' । २ ग. लिङ्ग्य° । ३ ग. 'ध. नाशं' ।