तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 548, कुल 914 में से
संदर्भ में पढ़ें[प्रपा० ८।अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५४३
एककालीनत्वमुभयोरपि रक्षणे सहभावः । उपदिष्टार्थग्रहणेन ममाविद्या यथा निवर्त्तते
तन्निवृत्तिं पश्यन्नाचार्यो यथा परितुष्यति तथा पालनमुत्तरकालीनं प्रथमं प्रार्थ्यते ।
उक्तप्रयोजनसिद्धयर्थमावामुभौ परस्परं सह विद्यायां वीर्यं स्वप्रयोजनसामर्थ्यं करवा-
वहै तस्मिंश्च सामर्थ्यकरणे य एष उपायः स प्रार्थ्यते । नौ गुरुशिष्ययोरावयोः संब-
न्धि यदधीतं ग्रन्थजातं तत्तेजस्वि स्वार्थप्रकाशकमस्तु । आवां च परस्परं द्वेषं मा
करवावहै । गुरुणा न सम्यग्व्याख्यातमिति शिष्यस्यापारितोषो द्वेषस्तथा शुश्रूषा न
समीचीनेति गुरोरपारितोषस्तदुभयं मा भूदित्यर्थः . प्रणवशन्तिशब्दाः पूर्ववद्व्याख्येयाः ॥
इति श्रीमत्सायणाचार्यविरचिते श्रीबुक्कणसाम्राज्यधुरंधरमाधवविद्यारण्यपरमे-
श्वरसंबन्धि वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्येऽष्टम-
प्रपाठके वारुण्यामुपनिषदि प्रथमोऽनुवाकः ॥ १ ॥
अथाऽग्रे द्वितीयोऽनुवाकः ।
प्रथमे द्वेषादिरूपसंभावितविघ्नपरिहाराय जप्यमन्त्र¹माम्नाय द्वितीयस्यानुवाकस्याऽऽदौ
²कृत्स्नोपनिषत्सारं संग्रहेण सूत्रयति—
ॐ ब्र॒ह्म॒विदा॑प्नोति॒ पर॑म्, इति ।
ब्रह्मवेदनेन मुक्तिः कृत्स्नोपनिषत्तात्पर्यार्थः । “ बृह बृहि वृद्धौ ” इत्यस्माद्धातो-
र्निष्पन्नो ब्रह्मशब्दो वृद्धं वस्त्वभिधत्ते । वृद्धिश्चात्र निरतिशया विवक्षिता । संकोच-
कयोः प्रकरणोपपदयोरभावात् । यदा त्वापेक्षिकवृद्धियुक्तं वस्तु प्रकृतं भवेत्, उपपदं
वा किंचिद्वाचकं प्रयुज्येत तदा संकोचो भवेत् । न त्वेतदुभयमप्यत्रास्ति । निरतिशय-
वृद्धिर्नाम नित्यशुद्धत्वादिरूपा । एतदेवाभिप्रेत्य श्रीमच्छारीरमीमांसाभाष्ये भगवत्पा-
दैरभिहितम्—“ अस्ति तावद्ब्रह्म नित्यशुद्ध³बुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्ति । ब्रह्म-
शब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते । बृंहतेर्धातोरर्थानुगमा-
त्” इति । ईदृशार्थविवक्षा च सत्यं ज्ञानमित्यादिना लक्षणवाक्येन स्पष्टी करिष्यते ।
तथाविधं ब्रह्म वेत्ति मनसा साक्षात्करोतीति ब्रह्मवित् । “मनसैवानु द्रष्टव्यं नेह
नानाऽस्ति किंचन ” इति वाजसनेयिनः समामनन्ति । चक्षुरादीन्द्रिययुक्तेन तु मनसा
नामरूपादिविशिष्टमेव ब्रह्म गृह्यते । नतु शुद्धम् । अतो मनसैव केवलेन द्रष्टव्य-
मित्य॒च्यते । ननु चक्षुरादिनिरपेक्ष्येऽपि वेदवाक्यापेक्षा विद्यते ब्रह्मणः शास्त्रप्रमेय-
त्वात् । बाढम् । अत एवानु द्रष्टव्यमित्युच्यते । *ब्रह्मप्रतिपादकं शास्त्रमनु पश्चा-
* ब्रह्मप्रतिपादकशास्त्रश्रवणानन्तरं मनसैव द्रष्टव्यं ब्रह्मेत्यर्थः ।
१ ग. जप्यं म° । २ क. ख. ङ. °षत्तात्पर्यं सं° । ३ क. ख. घ. ङ. °द्धम् ।