तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 421, कुल 914 में से
संदर्भ में पढ़ें४१८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् [प्रपा०६अनु०३]
र्वाञ्जहाम परित्यजाम । शिवान्सुखहेतून्वाजानातिविशेषान्नविशेषान्वाऽभिलक्ष्य
वयमुत्तरेमोत्तीर्णा भवाम ।
यद्द्वै दे॒वस्य॑ सवि॒तुः प॒वित्र॑ग्ं स॒हस्र॑धारं॒ वित॑तमन्तरि॑क्षे ।
येना॑पु॒नादिन्द्र॑म॒नार्त॒मार्त्यै॒ तेना॒हं माग्ं सर्व॑त॒नुं पु॑नामि ।
कल्पः—"जघनेन कर्षूः पर्णशाखे निहत्याबलेन शुल्बेन बद्ध्वा विनिःसर्पन्ति—
यद्वै देवस्य सवितुः पवित्रग्ं सहस्रधारं विततमन्तरिक्षे । येनापुनादिन्द्रमनार्तमार्त्यै
तेनाहं माग्ं सर्वतनुं पुनामि” इति । सवितुः प्रेरकस्य सूर्यस्य देवस्य संबन्धि पवित्रं
शुद्धिकारणं यद्वै यदेव शुल्बं सहस्रधारं बहुसंधिकमन्तरिक्षे विततं प्रसृतं येन सूर्य-
रूपेण शुल्बेन पुराऽऽर्त्या आर्तेः सकाशादिन्द्रमनार्तमपुनादार्तो यथा न भवति तथा शोधि-
तवान् । तेन शुल्बेनाहं प्रेतस्य ज्ञातिं मां मद्रूपं सर्वतनुं कृत्स्नशरीरं पुनामि
शोधयामि ।
या रा॒ष्ट्रात्प॒न्नाद॒पय॑न्ति॒ शाखा॑ अ॒भिमृ॑ता नृ॒पतिं॑-
मिच्छ॑मानाः । धातु॒स्ताः सर्वाः॒ पव॑नेन पू॒ताः
प्र॒जया॒ऽस्मान्र॒य्या वर्च॑सा सग्ंसृ॑जाथ ।
कल्पः—"जघन्यो व्युदस्यति— या राष्ट्रात्पन्नादपयन्ति शाखा अभिमृता नृपतिमि-
च्छमानाः । धातुस्ताः सर्वाः पवनेन पूताः प्रजयाऽस्मान्रय्या वर्चसा सग्ंसृजाथ” इति।
शुल्बस्याधस्ताद्ये ज्ञातयो निर्गच्छन्ति तेषां मध्ये पश्चान्निर्गच्छन्दहनकर्ता पुरुषः शाखा-
द्वयमनेन मन्त्रेण व्युदस्येत् । अभिमृता अनुक्रमेण पूर्वे मृताः पुरुषा नृपतिमिच्छमाना
मनुष्याणां पालकं स्वामिनमिच्छन्तः पन्नात्प्राप्ताद्राष्ट्राद्याः शाखा अपयन्त्यपसारयन्ति
ताः सर्वाः शाखा धातुः संबन्धिना पवनेन शुद्धिहेतुना पूताः शोधिताः । तादृश्यो
हे शाखा अस्मान्प्रजादिभिः सग्ंसृजाथ संयोजयत ।
कल्पः—"उद्वयं तमसस्परीत्यादित्यमुपस्थाय” इति । पाठस्तु—
उद्व॒यं तम॑स॒स्परि॒पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् । दे॒वं
दे॒व॒त्रा सूर्य॒मग्न्म॒ ज्योति॑रुत्त॒मम् , इति ।
वयं तमस उत्तरं ज्योतिस्तमसो विनाशकत्वेनोत्कृष्टं सूर्यसंबद्धं ज्योतिरूपं
पश्यन्त उत्कर्षेण सर्वतोऽवलोकयन्तो देवत्रा देवेषु मध्ये सूर्ये देवमुत्तमं ज्योतिरूपं
गन्म प्राप्ताः स्मः ।