तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 420, कुल 914 में से
संदर्भ में पढ़ें[प्रपा० ६ अनु० ३] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४१७
अथाष्टमीमाह—
ये युध्य॑न्ते प्रध॑नेषु शूरा॑सो॒ ये त॑नु॒त्यज॑ः । ये वा॑
स॒हस्र॑दक्षिणा॒स्ताꣳश्चि॑दे॒वापि॑ गच्छतात् , इति ।
ये क्षत्रियाः प्रधनेषु प्रकृष्टधननिमित्तेषु संग्रामेषु युध्यन्ते युद्धं कुर्वन्ति । तत्रापि
ये शूरासः शूरा भटास्तनुत्यजो युद्धाभिमुख्येन शरीरं त्यजन्ति । अथवा ये पुरुषाः
सहस्रदक्षिणा विश्वजिदादिक्रतुषु सहस्रदक्षिणायुक्ताः । तांश्चिदित्यादि पूर्ववत् । युद्धा-
भिमुख्येन मृतस्योत्तमलोकः स्मर्यते—
“ द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ ।
परिव्राड्योगयुक्तश्च रणे चाभिमुखे हतः ” इति ।
“ धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ” इति च ।
अथ नवमीमाह