सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 415, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 415

४१२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०६ अनु०१]
सूर्य॑ त इत्या॑दिमन्त्रस्य षड्ढोतेति नामधेयम् । हे प्रेत ते त्वदीयं चक्षुरिन्द्रियं सूर्य॑
गच्छतु । आत्मा प्राणो बाह्यवायुं गच्छतु । त्वमपि धर्मेणा सुकृतेन तत्फलं भोक्तुं
द्युलोकं भूलोकं च गच्छ, अपो वा गच्छ । चक्षुरादीन्द्रियसामर्थ्यं पुनर्देहग्रहणपर्यन्तं
तत्तदधिष्ठातृदेवता [ गतं ] त्वया द्युलोकादिषु शरीरे स्वीकृते पश्चात्त्वामेव प्राप्स्यति
यत्र (दि) यस्मिंल्लोके ते तव हितं सुखमस्ति तत्र गत्वौषधीषु प्रविश्य तद्द्वारा पितृ-
देहमातृदेहौ प्रविश्य तत्र तत्रोचितानि शरीराणि स्वीकृत्य तैः शरीरैः प्रतिष्ठितो भव
अ॒जोऽभा॒गस्तप॑सा॒ तं त॑प॒स्व तं ते॑ शो॒चिस्त॑-
पतु॒ तं ते॑ अ॒र्चिः । यास्ते॑ शि॒वास्त॒नुवो॑ जात-
वेद॒स्ताभि॑र्वहे॒मꣳ सु॒कृतां यत्र॑ लो॒काः ।
कल्पः—“ तत्रैतमजं चित्यन्तेऽबलेन शुल्बेन बध्नाति—अजोऽभागस्तपसा तं तपस्व
तं ते शोचिस्तपतु तं ते अर्चिः । यास्ते शिवास्तनुवो जातवेदस्ताभिर्वहेमꣳ सुकृतां यत्र
लोकाः ” इति । यँत्र ( तत्र ) चितेः पश्चिमभागे समीपे केनचिदबलेन शुल्बेनाजं बध्नी-
यात् ( बध्नाति ), ज्वालया संतः स ( * तेजसा सह शुल्बो ) यथाँ न द्रवेति तथा
बध्नीयात्, तदानीमजोऽभाग इत्येतं मन्त्रं पठेत् । हेऽग्नेऽयमजो भागरहितः । तमजं
तपसा त्वदीयेन तापेन तपस्व तप्तं कुरु । तथा ते शोचिः शोकहेतुज्वालाविशेषः
तं तपतु । तथाऽर्चिर्भासको ज्वालाविशेषः, तमजं तपतु । तपःशोचिरर्चिःशब्दानां
संतापतारतम्येन भेदः । हे जातवेदस्ते तव यास्तनुवः शिवाः सुखहेतवो नतु ता-
प्रदास्ताभिरिमं प्रेतं वह यत्र यस्मिंल्लोके सुकृतां पुण्यकृतां लोकाः सन्ति तत्र
प्रापय ।
अ॒यं वै त्वम॒स्मादधि॒ त्वमे॒तद॒यं वै तद॒स्य योनि॑-
रसि । वै॒श्वा॒न॒रः पु॒त्रः पि॒त्रे लो॒ककृज्जा॒तवे॑दो
वहे॒मꣳ सु॒कृतां यत्र॑ लो॒काः ( ४ ) ॥
वि॒द्वान॒भ्याव॑वृ॒त्स्र्वाभिर्मातीर्जयेम॒ शरी॑रैश्च॒त्वारि॑ च ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके
प्रथमोऽनुवाकः ॥ १ ॥

  • धनुश्चिह्नान्तर्गतमधिकमिव भाति ।
    १ ग. °च्छ वा जलं ग° । २ ख. °श्चात्त्वमे° । ३ क. प्रप्स्यन्ति । ख. प्राप्स्यसि । ४
    ख. यथा । ५ ग. ॰था दृ° ।