तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 402, कुल 914 में से
संदर्भ में पढ़ें[प्र० ५ अनु० १०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ३९९
'दुर्मि॒त्रास्तस्मै॑ भूयासु॒र्योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म
इत्या॑ह । अ॒भि॒चा॒र ए॒वास्यै॒षः (३७)' ।
प्र वा ए॒षो॑ऽस्माल्लो॒काच्च्य॑वते । यः प्र॑व॒र्ग्यमु॒द्वासय॑ति ।
उदु॒ त्यं चि॒त्रमिति॑ सौरीभ्या॑मृ॒ग्भ्यां पुन॒रेत्य॒ गार्ह॑पत्ये
जुहो॑ति । अ॒यं वै लो॒को गार्ह॑पत्यः । अ॒स्मिन्ने॒व लो॒के
प्रति॑तिष्ठति । अ॒सौ खलु॒ वा आ॑दि॒त्यः सु॑व॒र्गो लो॒कः ।
यत्सौर्यौ भवत॑ः । तेनै॒व सु॑व॒र्गंल्लो॒कमैति॑ (११)(३८) ॥
ब्रह्म॑णस्त्वा परस्पाया इत्या॑ह दधात्यन्वित्य॑ रक्षस्त्री रक्ष॑सा॒म-
पह॑त्यै॒ वै हिर॑ण्यमाहार्यति ह्येष गृ॑णात्वित्या॑ह
मनुष्या॑ नित्या॑हा॒स्यै॒षांऽष्टौ च॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके पञ्चमप्रपाठके
नवमोऽनुवाकः ॥ ९ ॥
अथ पञ्चमे दशमोऽनुवाकः ।
प्र॒जाप॑तिं वै दे॒वाः शुक्रं पयो॑ऽदुहन् । तदे॑भ्यो॒ न
व्य॑भवत् । तद्द्द्वि॒र्हव्य॑मकरोत् । तानि॑ शु॒क्रिया॑णि सामा॑न्य-
भवन् । तेषां॒ यो रसो॑ऽत्यक्षरत् । तानि॑ शु॒क्रयजू॒ꣳष्य॑भ-
वन् । शु॒क्रिया॑णां वा ए॒तानि॑ शु॒क्रिया॑णि । सा॒मपय॑सं
वा ए॒तयो॑र॒न्यत् । दे॒वाना॑म॒न्यत्पय॑ः । यद्गोः पय॑ः (१)।
तत्साम्न॑ः पय॑ः । यद॒जायै॑ पय॑ः । तद्दे॒वानां॒ पय॑ः । तस्मा॒-
द्यत्रैतैर्यजु॑र्भि॒श्चर॑न्ति । तत्पय॑सा चरन्ति प्र॒जाप॑तिमे॒व
तद्दे॒वान्पय॑साऽन्ना॒द्येन॒ समर्ध॑यन्ति (१) ।
३७ सप्तत्रिंशविभागस्य भाष्यं ३१६ पृष्ठे द्रष्टव्यम् ।
३८ अष्टात्रिंशविभागस्य भाष्यं ३१६ पृष्ठे द्रष्टव्यम् ।
१ प्रथमविभागस्य भाष्यं ३१७ पृष्ठे द्रष्टव्यम् ।