तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 401, कुल 914 में से
संदर्भ में पढ़ेंनम॑स्ते अस्तु॒ मा मां हिं॑सीरित्याहाहिं॑सायै ( २८) ।
वि॒श्वाव॑सुꣳ सोमगन्ध॒र्वमित्या॑ह । यदे॒वास्य॑ क्रियमा॑-
णस्यान्त॒र्यन्ति॑ । तदे॒वास्यै॒तेनाऽऽप्या॑ययति ( २९) ।
वि॒श्वाव॑सुर॒भि तन्नो॑ गृणात्वित्या॑ह ( ९) । पूर्व॑मे॒वो-
दि॒तम् । उत्तरे॑णाभिगृणाति ॥ ( ३०) ।
धियो॑ हिन्वा॒नो धिय॒ इन्नो॑ अव्या॒दित्या॑ह । ऋ॒तूने॒-
वास्मै॑ कल्पयति ( ३१) ।
प्रा॒ऽऽसां गन्ध॒र्वो अ॒मृता॑नि वोच॒दित्या॑ह । प्रा॒णा वा
अ॒मृता॑ः । प्रा॒णाने॒वास्मै॑ कल्पयति ( ३२) ।
ए॒तच्च्वं दे॑व घर्म दे॒वो दे॒वानुपा॑गा इत्या॑ह । दे॒वो ह्येष
सन्दे॒वानुपैति॑ ( ३३) ।
इ॒दम॒हं म॑नु॒ष्या॑न् मनु॒ष्या॑नित्या॑ह ( १०) । मनु॒ष्या॑
हि । एष सन्म॑नु॒ष्यानुपैति॑ ( ३४) ।
ईश्व॒रो वै प्र॑व॒र्ग्यमु॑द्वासय॑न् । प्र॒जां प॒शून्त्सो॑मपी॒थम॑नू-
द्वा॒सः सोम॑पीथा॒नुमेहि॑ । सह प्र॒जया॑ सह राय॒स्पोषे॑णे-
त्या॑ह । प्र॒जामे॒व प॒शून्त्सो॑मपी॒थमा॒त्मन्ध॑त्ते ( ३५) ।
सु॒मित्रा न॒ आप॒ ओष॑धयः सन्वित्या॑ह । आ॒शिष॑मे॒-
वैतामाशा॑स्ते ( ३६) ।
२८ अष्टाविंशविभागस्य भाष्यं ३१२ पृष्ठे द्रष्टव्यम् ।
२९ एकोनत्रिंशविभागस्य भाष्यं ३१३ पृष्ठे द्रष्टव्यम् ।
[L2