सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 382, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 382

वर्चस्य॑स्य॒त्याह॑ । रु॒चितो॒ ह्येष दे॒वेष्वायु॑ष्मा॒ᳪस्तेज॑स्वी
ब्रह्म॑वर्च॒सी । रु॒चितो॒ऽहं म॑नु॒ष्ये॑ष्वायु॑ष्मा॒ᳪस्तेज॑स्वी॒ ब्रह्म॑-
वर्च॒सी भू॑यासमित्या॑ह। रु॒चित॑ ए॒वैष म॑नु॒ष्ये॑ष्वायु॑ष्मा॒ᳪ-
स्तेज॑स्वी॒ ब्रह्म॑वर्च॒सी भ॑वति ( ५ ) ।
रुग॑सि॒ रुचं॒ मयि॑ धेहि॒ मयि॒ रुगि॑त्याह॑ । आ॒शिष॑मे॒-
वै॒तामाशा॑स्ते ( ६ ) ।
तं यदे॑तै॒र्यजु॑र्भि॒ररो॑चयित्वा । रु॒चितो॑ घ॒र्म इति॑ प्र॒ब्रू-
यात् । अरो॑चुकोऽध्व॒र्युः स्यात् । अरो॑चुको यज॑मानः ।
अथ॒ यदे॑नमे॒तैर्यजु॑र्भी रोचयि॒त्वा । रु॒चितो॑ घ॒र्म इति॒ प्राह॑ ।
रोचु॑कोऽध्व॒र्युर्भव॑ति । रोचु॑को यज॑मानः ( ३ ) ( ७ ) ।
प॒श्चाद्रो॑चयति॒ जाग॑तेन॒ छन्द॑सा॒ स मां रु॒चितो रो॑चये॒त्याहा॑ऽऽ-
शिष॑मे॒वैतामाशा॑स्ते॒ शास्ते॒ऽष्टौ च॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके पञ्चमप्रपाठके
पञ्चमोऽनुवाकः ॥ ५ ॥
अथ पञ्चमे षष्ठोऽनुवाकः ।
शि॒रो वा ए॒तद्य॒ज्ञस्य॑ । यत्प्र॑व॒र्ग्यः॑ । ग्री॒वा उप॒सदः॑ ।
पु॒रस्ता॑दु॒पसदां॑ प्रवर्ग्यं प्रवृ॑णक्ति । ग्री॒वास्वे॒व य॒ज्ञस्य॒ शिरः॑
प्रति॑दधाति ( १ ) ।
त्रि॒ः प्रवृ॑णक्ति । त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒व
लो॒केभ्यो॑ य॒ज्ञस्य॒ शिरोऽव॑रु॒न्धे ( २ ) ।
५ पञ्चमविभागस्य भाष्यं २६२ पृष्ठे द्रष्टव्यम् ।
६ षष्ठविभागस्य भाष्यं २६२ पृष्ठे द्रष्टव्यम् ।
७ सप्तमविभागस्य भाष्यं २६३ पृष्ठे द्रष्टव्यम् ।
१ प्रथमविभागस्य भाष्यं २६४ पृष्ठे द्रष्टव्यम् ।
२ द्वितीयविभागस्य भाष्यं २६४ पृष्ठे द्रष्टव्यम् ।