तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 381, कुल 914 में से
संदर्भ में पढ़ें३७८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०५अनु०५]
अथ पञ्चमे पञ्चमोऽनुवाकः ।
अ॒ग्निष्ट्वा वसु॑भिः पु॒रस्ता॑द्रोचयतु गाय॒त्रेण॒ छन्द॑से-
त्या॑ह । अ॒ग्निरे॒वैनं॒ वसु॑भिः पु॒रस्ता॑द्रोचयति गाय॒त्रेण॒
छन्द॑सा ( १ ) ।
स मां रु॒चितो रो॑चये॒त्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते(२) ।
इन्द्र॑स्त्वा रु॒द्रैर्दक्षिणतो रोचयतु त्रैष्टु॑भेन॒ छन्द॑से-
त्या॑ह । इन्द्र॑ ए॒वैनं॒ रु॒द्रैर्दक्षिणतो रो॑चयति त्रैष्टु॑भेन॒
छन्द॑सा । स मां रु॒चितो रो॑चये॒त्या॑ह । आ॒शिष॑मे॒वैतामा-
शा॑स्ते । वरु॑णस्त्वाऽऽदि॒त्यैः प॒श्चाद्रो॑चयतु जाग॑तेन॒
छन्द॑सेत्या॑ह । वरु॑ण ए॒वैन॑मादि॒त्यैः प॒श्चाद्रो॑चयति
जाग॑तेन॒ छन्द॑सा ( १ ) । स मां रु॒चितो रो॑चये॒-
त्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते । द्यु॒तानस्त्वा॑ मा॒रुतो
म॒रुद्भि॑रुत्तर॒तो रो॑चयत्वानु॒ष्टुभे॑न॒ छन्द॑सेत्या॑ह ।
द्यु॒तान॑ ए॒वैनं॑ मा॒रुतो म॒रुद्भि॑रुत्तर॒तो रो॑च-
यत्यानु॒ष्टुभे॑न॒ छन्द॑सा । स मां रु॒चितो
रो॑चये॒त्या॑ह । आ॒शिष॑मे॒वैतापाशा॑स्ते । बृह॒स्पति॑स्त्वा
वि॒श्वैर्देवैरुपरिष्टा॑द्रोचयतु पा॒ङ्क्ते॑न॒ छन्द॑सेत्या॑ह । बृह॒स्पति॑-
रे॒वैनं॑ वि॒श्वैर्देवैरुपरिष्टा॑द्रोचयति पा॒ङ्क्ते॑न॒ छन्द॑सा । स मां
रु॒चितो रो॑चये॒त्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते (२)(३) ।
रो॒चित॒स्त्वं दे॑व घर्म दे॒वेष्व॑सीत्या॑ह । रो॒चितो॒ ह्येष
दे॒वेषु॑ । रो॒चि॒षी॒या॒हं म॑नु॒ष्ये॑ष्वित्या॑ह । रोच॑त ए॒वैष
म॑नु॒ष्ये॑षु ( ४ ) ।
सम्राड् घर्म रुचितस्त्वं देवेष्वायुरुषा२स्तेजस्वी ब्रह्म·
१ प्रथमविभागस्य भाष्यं २६० पृष्ठे द्रष्टव्यम् ।
२ द्वितीयविभागस्य भाष्यं २६० पृष्ठे द्रष्टव्यम् ।
३ तृतीयविभागस्य भाष्यं २६१ पृष्ठे द्रष्टव्यम् ।
४ चतुर्थविभागस्य भाष्यं २६१ पृष्ठे द्रष्टव्यम् ।