सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 376, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 376

प्र०५ अनु०४] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ३७३
देवं पुन॒श्चर॑ स॒ध्यासं॒ त्वेत्या॑ह । यथा॒ यजु॑रे॒वैतत्
( ९ ) ( ३४ ) ।
स्या॒द्यत्प्र॑व॒र्ग्यं॑च्छन्दो॑भिः करोति वी॒र्यं॑संमितं च्छन्दा॑ꣳसि निष्पत्पृणे-
--- त्या॑ह सुक्षितिरना॑च्छृण्णं च्छन्दा॑ꣳ स्याच्छृणच्च्यष्टौ च॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके पञ्चमप्रपाठके
तृतीयोऽनुवाकः ॥ ३ ॥
अथ पञ्चमे चतुर्थोऽनुवाकः ।
ब्रह्म॑न्प्रचरिष्यामो होत॑र्घर्ममभि॒ष्टुहीत्या॑ह । ए॒ष वा
ए॒तर्हि॒ बृह॒स्पतिः॑ । यद्ब्रह्मा॑ । तस्मा॑ एव प्रति॒प्रोच्य॑
प्र॑चरति । आत्म॑नोऽना॑र्त्यै ( १ )।
य॒माय॑ त्वा म॒खाय॑ त्वेत्या॑ह । ए॒ता वा ए॒तस्य॑
दे॒वता॑: । ताभि॑रे॒वैनं॑ꣳ समर्धयति ( २ )।
मद॑न्तीभिः॒ प्रोक्ष॑ति । तेज॑ ए॒वास्मि॑न्दधाति (१)(३)।
अ॒भि॒पूर्वं॒ प्रोक्ष॑ति । अ॒भि॒पूर्व॑मे॒वास्मि॒न्तेजो॑ दधाति (४)।
त्रिः प्रोक्ष॑ति । त्र्यावृ॑द्धि य॒ज्ञः । अथो॑ मेध्य॒त्वाय॑(५)।
होता॒ऽन्वाह॑ । रक्ष॑सामप॑हत्यै ( ६ )।
अन॑वानम् । प्रा॒णानां॑ꣳ सं॒तत्यै॑ ( ७ )।
त्रि॒ष्टुभ॑: स॒तीर्गाय॒त्रीरि॑वा॒न्वाह॑ ( २ )। गाय॒त्री हि
प्रा॒णः । प्रा॒णमे॒व यज॑माने दधाति ( ८ )।
३४ चतुस्त्रिंशत्तमविभागस्य भाष्यं २४४ पृष्ठे द्रष्टव्यम् ।
१ प्रथमविभागस्य भाष्यं २४६ पृष्ठे द्रष्टव्यम् ।
२ द्वितीयविभागस्य भाष्यं २४६ पृष्ठे द्रष्टव्यम् ।
३ तृतीयविभागस्य भाष्यं २४६ पृष्ठे द्रष्टव्यम् ।
४ चतुर्थविभागस्य भाष्यं २४६ पृष्ठे द्रष्टव्यम् ।
५ पञ्चमविभागस्य भाष्यं २४७ पृष्ठे द्रष्टव्यम् ।
६ षष्ठविभागस्य भाष्यं २४७ पृष्ठे द्रष्टव्यम् ।
७ सप्तमविभागस्य भाष्यं २४७ पृष्ठे द्रष्टव्यम् ।
८ अष्टमविभागस्य भष्यं २४७ पृष्ठे द्रष्टव्यम् ।