तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 365, कुल 914 में से
संदर्भ में पढ़ें३६२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [प्रपा० ४ अनु० ४]
शु॒श्रूषे॒ण्यां॑ मनु॒ष्यै॑भ्य॒स्तं मा॑ दे॒वा अव॑न्तु शो॒भायै॑ पि॒तरो॒ऽ-
नु॑मदन्तु ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ।
हरिः॑ ॐ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके चतुर्थप्रपाठकः
समाप्तः ॥ ४ ॥
चतुर्थपञ्चमाभ्यां प्रपाठकाभ्यां प्रपञ्चितः ।
मन्त्रब्राह्मणरूपाभ्यां प्रवर्ग्योऽयमशेषतः ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति श्रीमद्वीरबुक्कणसाम्राज्यधुरंधरश्रीमत्सायणाचार्यविरचिते
माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यक-
भाष्ये चतुर्थप्रपाठकः समाप्तः ॥ ४ ॥
═════════════════
चतुर्थप्रपाठकेन सह पञ्चमप्रपाठकोऽपि समाप्तः ।