तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
DevanagariSanskritpublished914 पृष्ठ
पृष्ठ 361, कुल 914 में से
संदर्भ में पढ़ेंपृष्ठ 361
३५८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० ४ अनु० ४३]
भिरवस्थावान्यः प्रवर्ग्यस्तस्याऽऽदित्य इति नाम । स प्रवर्ग्य एवं तत्तद्देवताप्रीतिहेतु-
त्वात्स्वस्यैतानि नामान्यकुरुत संपादितवान् ।
नामवेदनं प्रशंसति—
य एवं वेद॑ । वि॒दुरे॑नं॒ नाम्ना॒, इति॑ ।
( प्रपा० ५ । अनु० ११ । विभा० ६ )
अथ प्रश्नोत्तराभ्यां +मृन्मयस्य महावीरस्य होमसाधनत्वमुपपादयति—
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । यन्मृ॒न्मय॒माहु॑तिं नाश्नु॒तेऽथ॑ ।
कस्मा॑देषोऽश्नुत॒ इति॑ । वागे॒ष इति॑ ब्रूयात् । वा॒च्येव
वाचं॑ दधाति (५) । तस्मा॑दश्नुते, इति॑ ।
( प्रपा० ५ । अनु० ११ । विभा० ७ )
दारुमयस्य होमसाधनत्वं सर्वत्र दृष्टं न तु क्वचिद