सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 347, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 347

[३४४] श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० ४ अनु० ४]

समि॑दसि सम्यग्दी॒पिकाऽसि । तस्मान्मे मम भ्रातृ॑व्यहाऽसि शत्रुघातिनी भवसि
स्वाहुतमिदमस्तु ।
कल्पः—“अथ देवता उपतिष्ठते, अग्ने व्रतपते व्रतं चरिष्यामि” इति । पाठस्तु-
अ॒ग्ने॒ व्र॒त॒प॒ते॒ व्रतं च॑रिष्यामि ( ३ ) । तच्छ॑केयं
तन्मे॑ राध्यताम् । वायो॒ व्रतपत आदि॑त्य व्रत
पते । व्रतानां॑ व्रतपते व्रतं च॑रिष्यामि ।
तच्छ॑केयं तन्मे॑ राध्यताम् , इति ।
१हे व्रतपतेऽवान्तरदीक्षारूपस्य व्रतस्य पालकाग्ने व्रतमदमहं चरिष्यामि । त्वत्-
सादात्तद्व्रतं कर्तुं शकेयं शक्तो भूयासम् । मे मदीयं तद्व्रतं राध्यतां समृ-
गच्छतु । वायो व्रतपत इत्येतस्मिन्नुत्तरस्मिंश्च व्रतं चरिष्यामीत्यादिकमनुषज्यते
एतदर्थमेव चतुर्थमन्त्रे पुनराम्नातम् । व्रतपत इत्युक्तस्य पुनरपि व्रतानामित्युक्तिः कृत-
व्रतस्वीकारार्था ।
कल्पः—“आवृत्तैर्मन्त्रैः समिध आधायाऽऽवृत्तैर्देवता उपस्थाय” इति । पाठस्तु-
द्यौः स॒मित् । तामा॑दि॒त्यः स॒मिन्धे । साऽऽदि॒त्यꣳ स॒मिन्धे ।
तामहꣳ स॒मिन्धे । सा मा॒ स॒मिद्धा । आयु॑षा॒ तेज॑सा ( ४ ) ।
वर्च॑सा॒ श्रिया । यश॑सा ब्रह्मवर्च॒सेन॑ । अन्नाद्ये॑न॒ समि॑न्ता२ꣳ
स्वाहा॑ । अ॒न्तरि॑क्षꣳ स॒मित् । तां वा॒युः स॒मिन्धे । सा वा॒युꣳ
स॒मिन्धे । तामहꣳस॒मिन्धे । सा मा॒ स॒मिद्धा । आयु॑षा॒ तेज॑सा ।
वर्च॑सा॒ श्रिया ( ५ ) । यश॑सा ब्रह्मवर्च॒सेन॑ । अन्नाद्ये॑न॒ समि॑-
न्ता ꣳस्वाहा॑ । पृथि॒वी स॒मित् । ताम॒ग्निः स॒मिन्धे । साऽ॒ग्निꣳ
स॒मिन्धे । तामहꣳ स॒मिन्धे । सा मा॒ स॒मिद्धा । आयु॑षा॒ तेज॑सा ।
वर्च॑सा॒ श्रिया । यश॑सा ब्रह्मवर्च॒सेन॑ ( ६ ) । अन्नाद्ये॑न
समि॑न्ता ꣳस्वाहा॑ । प्रा॒जा॒प॒त्या मे समि॑दसि सपत्न॒क्षय॑णी ।
भ्रातृ॑व्य॒हा मे॑ऽसि॒ स्वाहा॑ । आदि॑त्य व्रतपते व्रतम॑चारिषम् ।
तद॑शकं॒ तन्मे॑ऽराधि । वायो॑ व्रतपते॒ऽग्ने॑ व्रतपते । व्रतानां॑ व्रत-


१ क. ख. हे प्रजाप० । २ ग. ०न । अ० ।