सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 335, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 335

३३२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा०४अनु०२
ताभि॑र॒मुं ग॑च्छ । योऽस्मान्द्वेष्टि॑ । यं च॑ व॒यं द्वि॒ष्मः, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके चतुर्थप्रपाठके
त्रयोविंशोऽनुवाकः ॥ २३ ॥
क्लिगादीन्यनिरान्तानि तनुनामानि । अन्यत्पूर्ववत् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये चतुर्थप्रपाठके त्रयोविंशोऽनुवाकः ॥ २३ ॥
अथ चतुर्थे चतुर्विंशोऽनुवाकः ।
मरुद्गणप्रतिपादकं प्रथममनुवाकमाह—
धु॒निश्च॑ ध्वान्॒तश्च॑ ध्व॒नश्च॑ ध्वनयँ॑श्च ।
नि॒लि॒म्पश्च॑ विलि॒म्पश्च॑ विक्षिपः॑, इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके चतुर्थप्रपाठके
चतुर्विंशोऽनुवाकः ॥ २४ ॥
धुन्यादीनि सप्त पदानि गणगतानां मरुद्विशेषाणां नामधेयानि । एतद्रूपेण कप-
लान्यवत्ति॑ष्ठन्त इत्यर्थः ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये चतुर्थप्रपाठके चतुर्विंशोऽनुवाकः ॥ २४ ॥
अथ चतुर्थे पञ्चविंशोऽनुवाकः ।
मरुद्गणप्रतिपादकमनुवाकान्तरमाह—
उ॒ग्रश्च॑ धु॒निश्च॑ ध्वान्॒तश्च॑ ध्व॒नश्च॑ ध्वन-
यँ॑श्च । सह॑स॒ह्वाꣳ॑श्च सह॑मा॒नश्च सह॑स्वा॒ꣳ॑श्च
स॒हीयाँ॑श्च । एत्य॑ प्रेत्य॑ विक्षिपः॑, इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके चतुर्थप्रपाठके
पञ्चविंशोऽनुवाकः ॥ २५ ॥
१ ग. ॰तिष्ठामीत्य॰ ।