तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 334, कुल 914 में से
संदर्भ में पढ़ें[प्रपा०४अनु०२२] कृष्णयजुर्वेदीय तैत्तिरीयारण्यकम् । ३३१
अथ चतुर्थे द्वाविंशोऽनुवाकः ।
कल्पः—“ व्याख्याता घोरास्तन्वोऽरण्येऽनुवाक्यो गण उत्तरौ चानुवाकौ ” इति ।
घोरतनूनां प्रतिपादकौ द्वावनुवाकौ, तत्रोक्तास्तन्व आधानप्रतिपादके सूत्रे व्याख्याताः ।
अरण्येऽनुवाक्या भवन्तीति हि तत्र सूत्रेऽभिहितम् । तथा द्वयोरनुवाकयोर्मरुद्रण उक्तः,
स च विकल्पितः । तस्य विनियोगो राजसूयप्रकरणे सूत्रकारेणाभिहितः—“ मारुतमे-
कविंशतिकपालं निर्वपति वैश्वदेवीमामिक्षां तस्यारण्येऽनुवाक्यैर्गणैः कपालानुपदधाति ”
इति । ब्राह्मणं चाऽऽम्नातम्—“ योऽरण्येऽनुवाक्यो गणस्तं मध्यत उपदधाति ” इति ।
तत्र घोरतनुप्रतिपादकं प्रथममनुवाकमाह—
यास्तॆ॑ अग्ने घो॒रास्त॒नुवः॑ । क्षु॒च्च तृ