तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
DevanagariSanskritpublished914 पृष्ठ
पृष्ठ 319, कुल 914 में से
संदर्भ में पढ़ेंपृष्ठ 319
३१६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० ४ अनु० ११]
उत्तरभागस्य शत्रुविषयाभिचारत्वं दर्शयति—
दुर्मित्रास्तस्मै भूयासुर्योऽस्मान्द्वेष्टि यं च वयं
द्विष्म इत्याह । अभिचार एवास्यैषः, इति ।
( प्रपा० ५ । अनु० ९ । विभा० ३७ )
उद्वयं॒ तम॑स॒स्परि॑ । उदु॒ त्यं चि॒त्रम् ।
कल्पः—" उद्वयं तमसस्परीत्यादित्यमुपस्थायोदु त्यं चित्रमिति द्वाभ्यां गार्हपत्ये
जुहोत्युपतिष्ठत¹ इत्येके" इति । उद्वयमिति मन्त्रः समास्त्वाऽग्न इत्यनुवाके व्याख्यातः।
उदु त्यं जातवेदसं चित्रं देवानामिति मन्त्रद्वयमुदु त्यमित्यनुवाके व्याख्यातम् ।
एतन्मन्त्रद्वयसाध्यं³ होमं विधत्ते—
प्र वा एषोऽस्माल्लोकाच्च्यवते । यः प्रवर्ग्र्यमुद्वासयति । उदु त्यं चित्र-
[L