तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 316, कुल 914 में से
संदर्भ में पढ़ें[प्रपा० ४ अनु० ११] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ३१३
सोमप्रकरणे श्रूयते—"तग्॒ सोममाह्रियमाणं गन्ध॒र्वो वि॒श्वाव॑सुः पर्य॑मुष्णात्" इति ।
सोमस्यापहर्तारं तं विश्वावसुमापो ददृशुषीः, अब्देवता दृष्टवत्यः । ताश्चा१ब्देवता
ऋतेन यज्ञेन निमित्तेन तत्तदा व्यायनविशेषेण गन्धर्वसमीपं प्रत्यागच्छन् । इन्द्रो देवस्त-
दर्पां गमनमन्ववैदनुक्रमेण ज्ञातवान् । स चेन्द्र आसामपां समीपे रारहाणो भृशं
गच्छन्सूर्यस्य परिधीनपरिधिसदृशानरश्म्यभिमानिनो देवान्पर्यपश्यत्परितो वेष्टयितॄनव-
लोकितवान् । यदा गन्धर्वः सोमं मुष्णाति तदानीमापो दृष्ट्वा तत्र गताः । इन्द्रश्च तद-
भिज्ञायापां सहायार्थं गन्धर्वमवरोद्धुं सूर्यरश्मीन्प्रे२षितवानित्यर्थः ।
विश्वावसुवृत्तान्तस्मरणस्य विकलाङ्गसमाधानार्थत्वं दर्शयति—
विश्वावसुग्॒ सोमगन्धर्वमित्याह । यदेवा॒स्य क्रियमाण-
स्यान्तर्यन्ति । तदेवा॒स्यैतेना॒ऽऽप्या॑ययति , इति ।
( प्रपा० ५ । अनु० ९ । विभा० २९ )
अनुष्ठीयमानस्य प्रवर्ग्यस्य यदङ्गमृत्विजोऽन्तर्हितं कुर्वन्ति, तदङ्गमेतेन वृत्तान्तस्मर-
णेन समृद्धं करोति । गन्धर्वेणाऽऽपादितस्य वैकल्यस्याद्भिुरिन्द्रेण च समाहितत्वात्तदनु-
स्मरणस्य समाधानार्थत्वं युक्तम् ।
सप्तमं मन्त्रमाह—
वि॒श्वाव॑सुर्भि तन्नो॑ गृणातु । दि॒व्यो ग॑न्ध॒र्वो रज॑सो
वि॒मान॑: । यद्वा॑ घा३ स॒त्यमु॒त यन्न वि॒द्म(७) ।
धियो॑ हिन्वा॒नो धिय॒ इन्नो॑ अव्यात् , इति ।
अस्मिन्कर्मणि यद्वा४ घा यदेव किंचिदङ्गं यथाशास्त्रमनुष्ठितम्, उतापि च यदङ्गं न
वेद्म वयं विस्मृतवन्तः, तत्सर्वं नोऽस्मभ्यं विश्वावसुर्गृ(रभिगृ५)णातु कथयतु ।
कीदृशः । दिव्यो गन्धर्वः, दिवि भवो गन्धर्वजातिः । अतः सर्वज्ञ इत्यर्थः । रजसो
वेमानः, रञ्जकस्य गीतस्य विशेषेण निर्माता । धियो हिन्वानः, बुद्धेः प्रीणयिता ।
गन्धर्वो नोऽस्मदीया धिय इदूबुद्धीः सर्वा अप्यव्याद्रक्षतु ।
पूर्वमन्त्रे यथाऽङ्गवैकल्यसमाधानहेतुत्वं तद्वदस्यापि वैकल्यसमाधानहेतुतां दर्शयति—
विश्वावसुर्भि तन्नो गृणात्वित्याह ( ९ ) ।
पूर्वमेवोदितम् । उत्तरेणाभिगृणोति , इति ।
( प्रपा० ५ । अनु० ९ । विभा० ३० )
१ क. ख. ता अब्दे॑ । २ क. ॰पेरितं । ३ ग 'द्वा य स' । ४ ग. ॰द्वा घ य' । ५ ग.
गातु । इ॑ ।
४०