सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 286, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 286

प्रपा० ४ अनु० ८ ] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । २८३
इन्द्रा॑श्विना॒ मधु॑नः सार॒घस्य॑ ।
घ॒र्मं पा॑त बसवो॒ यज॑ता॒ वट् ।
कल्पः—" इन्द्राश्विना मधुनः सारघस्येति महावीरे गोपय आनयति " इति ।
[घ]र्मं पात वसवो यजता वदिति मन्त्रशेषः । हे इन्द्र हेऽश्विनौ यूयं त्रयोऽपि मधुनः
[सं]बन्धिनं घर्मं घृतसहितं क्षीरं पात पिबत । कीदृशस्य मधुनः, सारघस्य सरघा
[म]धुमक्षिकास्ताभिर्निष्पादितं सारघं तादृशस्य । मधुनः संबन्धेन हविषस्तद्वन्मधुररस-
वम् । हे वसवो देवा यजत यागं कुरुत । वद्, इदं हविर्दत्तमस्तु ।
अस्मिन्मन्त्र इन्द्रशब्देन सहाश्विशब्दस्य प्रयोगाभिप्रायं दर्शयति—
अश्विनौ वा एतद्यज्ञस्य शिरः प्रतिदधतावाब्रूताम् ।