तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 253, कुल 914 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the page into Unicode Devanagari, faithfully preserving Vedic accents, punctuation, and layout:
२५० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०४अनु०४]
प्रदीप्तमुञ्जस्थापने कंचिद्विशेषं विधत्ते—
अप्रतिशीर्णं भवति । एतद्वर्हिर्ह्येषः ( ५ ), इति ।
( प्रपा० ५ । अनु० ४ । विभा० १७ )
दीप्तमुञ्जानामग्रं प्रतिशीर्णमितस्ततो विप्रसृतं यथा न भवति तथा समुह्यैव स्थाप-
येत् । यस्मादयं प्रवर्ग्य एतद्वर्हिर्मुञ्जरूपबर्हिर्युक्तः, तस्माद्वेद्यास्तरणबर्हिष इवाप्रति-
शीर्णत्वं युक्तम् ।
अर्चिर॑सि॒ शोचिर॑सि॒ ज्योति॑रसि॒ तपो॑ऽसि ।
कल्पः—“तान्यत्यस्तानुपरि रुक्मे निदधाति, अर्चिरसि शोचिरसि ज्योतिरसि
तपोऽसि” इति । हे दक्षिणमुञ्जाग्रभाग त्वमर्चिर्जवालारूपोऽसि । हे उत्तरमु