सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 238, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 238

[प्रपा०४अनु०२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । २३५
निगमान्तरं विधत्ते—
न प्र॒व॒र्ग्यं चा॒ऽऽदि॒त्यं चा॒न्तरे॑यात् । यदन्तरे॑यात् । दु॒श्चर्मा॑ स्यात् ।
( १ ) । तस्मा॒न्नान्त॑रा॒त्यम् । आ॒त्मनो॒ गोपी॑थाय, इति ।
( प्रपा० ५ । अनु० ३ । विभा० ३ )
यत्र प्रवर्ग्यपात्राणि तिष्ठन्ति तत्र सूर्यश्चेत्प्राच्यां वसेत्तदानीं स्वयं प्रतीच्यां तिष्ठेत् ।
सूर्यस्य प्रतीच्यामवस्थाने स्वयं प्राच्यां तिष्ठेत् । एवं सति प्रवर्ग्यादित्ययोर्मध्येऽन्तरायो
न भवेत् । अन्तराये तु कुष्ठरोगी स्यात् । अतः स्वशरीररक्षार्थमन्तरायं न कुर्यात् ।
मृत्पात्रनिर्माणे साधनं विधत्ते—
वेणु॑ना करोति । तेजो॒ वै वेणुः॑ । तेज॑:
प्र॒व॒र्ग्यः॑ । तेज॑सै॒व तेज॒: समर्ध॑यति, इति ।
( प्रपा० ५ । अनु० ३ । विभा० ४ )
कुम्भनिर्माणार्थं कुम्भकाराः काष्ठेन यं व्यापारं कुर्वन्ति तमत्र वेणुना कुर्यान्नतु
दारुणा । “अग्निर्देवेभ्यो निलायत स वेणुं प्राविशत्” इति श्रुत्या वेणोस्तेजस्त्वं तत्त-
नूताधारत्वात्प्रवर्ग्यपात्रमपि तेजः । अतो वेणुरूपेण तेजसा प्रवर्ग्यरूपं तेजः समृद्धं
करोति ।
म॒खस्य॒ शिरो॑ऽसि ( ५ ) ।
कल्पः—“ ^२संपिष्ट्य मृदं मखस्य शिरोऽसीति पिण्डं कृत्वा” इति । हे मृत्पिण्ड
त्वं यज्ञस्य शिरःस्थानीयोऽसि ।
प्रवर्ग्यार्थस्य द्रव्यस्य शिरःस्थानीयत्वं विशदयति—
म॒खस्य॒ शिरो॑ऽसीत्याह । य॒ज्ञो वै म॒खः । तस्यै॒-
तच्छिर॑: । यत्प्र॑व॒र्ग्यः (२) । तस्मा॑दे॒वमा॑ह, इति ।
( प्रपा० ५ । अनु० ३ । विभा० ५ )
प्रथमानुवाके धनुष्कोट्योच्छिन्नं यज्ञपुरुषस्य शिरो द्यावापृथिव्योरनुवर्तनात्प्रवर्ग्यनाम
संपन्नमित्युक्तम् । तस्मान्मखस्य शिरोऽसीतिमन्त्रोक्तमुपपन्नम् ।
य॒ज्ञस्य॑ प॒दे स्थः॑ ।
कल्पः—“ य॒ज्ञस्य प॒दे स्थ इत्यङ्गुष्ठाभ्यां निगृह्य” इति । आर्द्रस्य पिण्डस्यो-
र्ध्वपृष्ठद्वयग्रहेण निष्पन्नबिन्दुद्वयाकारे हे लाञ्छने युवां यज्ञस्य पादौ भवतः !
एतयोर्यज्ञाङ्गत्वे शास्त्रप्रसिद्धिं दर्शयति —
य॒ज्ञस्य॑ प॒दे स्थ इत्या॑ह । य॒ज्ञस्य॒ ह्येते पदे॑ । अथो॒ प्रति॑ष्ठित्यै, इति ।
( प्रपा० ५ । अनु० ३ । विभा० ६ )
१ ङ. 'रक्षार्थ' । २ क. सपक्विष्य । ख. संपङ्क्ष्य ।