सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 232, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 232

प्रपा०४ अनु०२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ३३९
इ॒यत्यग्र॑ आसीः ।
कल्पः—“एवमितरान्संभारानाभिमन्त्रणे विकारः, इयत्यग्र आसीरिति वराहविह-
तृ” इति । येन प्रकारेण मृदो हरणमुक्तं तेनैव प्रकारेणेतरे सर्वे संभाराः संपादनीयाः ।
अभिमन्त्रणे तु तत्र तत्र मन्त्रविशेषोऽस्ति । 'देवी द्यावापृथिवी' इति पूर्वत्र मृदोऽ-
भिमन्त्रणम् । इह त्वियत्यग्र आसीरिति मन्त्रः । वराहो दंष्ट्रया यं मृद्विशेषं संपादयति
तन्मृत्स्वरूपं वराहविहतम् । हे वराहविहतेयत्यग्र एतावती पुरोदेशे त्वमासीः ।
अभिमन्त्रितस्य वराहविहतस्याऽऽहरणे मन्त्रान्दर्शयति—
ऋ॒ध्यास॑म॒द्य । म॒खस्य॒ शिर॑: । म॒खाय॑
त्वा । म॒खस्य॑ त्वा शी॒र्ष्णे, इति ।
एते मन्त्राः पूर्ववद्व्याख्येयाः ।
एतेषां वराहविहतसंभारमन्त्राणां तात्पर्यं दर्शयति—
इयत्यग्र आसीरित्याह । अस्यामेवाच्छम्ब-
✕ ट्कारं यज्ञस्य शिरः संभरति, इति ।
( प्रपा० ५ । अनु० २ । विभा० २१ )
यावद्वराहविहतमस्ति, एतावत्ती सर्वा भूमिर्वराहेणोद्धृतत्वात् । एतच्चाऽऽधानब्राह्मणे—
'वराहो रूपं कृत्वा' इत्यादिना स्पष्टमाम्नातम् । अतो वराहविहतसंभारेणास्यामेव
[कृ]त्स्यामपि पृथिव्यामच्छम्बट्कारमल्पोऽप्यंशो व्यर्थो यथा न भवति तथा कृत्वा यज्ञस्य
[शिर]ः संपादितं भवति ।
कल्पः—“देवीर्वम्रीरिति वल्मीकवपाम् ” इति । अभिमन्त्रयत इति शेषः ।
[मन्त्र]स्तु---
दे॒वीर्व॑म्रीर॒स्य भू॒तस्य॑ प्रथम॒जा ऋ॒तावरी॑:, इति ।
वल्मीकस्य निष्पादिकाः क्षुद्रजन्तुस्वरूपा वम्रयः । हे वम्रयो देव्यो यूयमस्य
[भूत]स्य प्राणिजातस्य प्रथमजाः प्रथमत उत्पन्नाः । ऋतावरीर्यज्ञवत्यः संभाररूपेण
निष्पादकत्वात्तादृश्यो भवथेति शेषः ।
अनेन मन्त्रेणाभिमन्त्रिताया वल्मीकवपायाः संभरणमन्त्रानाह—
ऋ॒ध्यास॑म॒द्य । म॒खस्य॒ शिर॑: ( ३ ) म॒खाय॑
✕ अच्छं वषट्कारमिति ग. पुस्तके शोधितः पाठः ।
१ क. मन्त्रे वि० । २ क. ख. ॰संभरणेनास्या॰ । ३ ग. ॰तान्वल्मी० ।