तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 22, कुल 914 में से
संदर्भ में पढ़ें[प्रपा० १ अनु० ३] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १५
रव्व्यथयन्निव पीडामप्राप्नुवन्निव दृश्यते । सत्यपि तदा शीते प्रावरणाभिसंवादिना
शान्तस्य शीतस्य प्राणिभिः पारीहियमाणत्वान्नास्ति व्यथा । किंच रुरुदक्ष इव रुरवो
मृगविशेषास्तैर्दक्षः समृद्ध इवायमृतुर्दृश्यते । अरण्येषु तृणसमृद्ध्या तस्मिन्नृतौ पुष्टानां
मृगयूथानां बहुलमुपलम्भात् ।
अथैकादशीमाह—
ह्लादय॑ते ज्वलंतश्चैव । शाम्य॑तंश्चास्य॒ चक्षु॑षी ।
या वै प्र॒जा भ्रꣳ॑श्यन्ते । सं॒व॒त्स॒रात्ता भ्रꣳ॑श्यन्ते, इति ।
अयं वर्षर्तुः सर्वान्प्राणिनो ह्लादयते संतोपयते । अहो सुवृष्टो देवः संपत्स्यन्तेऽ-
स्माकं शस्यानीत्येवं सर्वस्य लोकस्य परितोषः । तस्मिन्नृतौ बीजवापमकृत्वा या
भ्रश्यन्ते [भ्रश्यन्ति] ताः प्रजा न केवलं तस्मादृतोरेव भ्रष्टाः किंतु कृत्स्नादपि
संवत्सराद्भ्रष्टाः । आगामिवर्षपर्यन्तमन्नस्य दुर्लभत्वात् । यास्तु प्रजास्तस्मिन्नृतौ
क्षेत्रेषु वीजावापं कृत्वा प्रतिष्ठिता भवन्ति ताः प्रजा अन्नस्य सुलभत्वात्समृद्धा
दृश्यन्ते । अस्यैवंविधस्य वर्षर्तोरक्ष्णुषी ज्वलतश्चैव शाम्यतश्च । अनेन हि
ऋतुना दृष्टाः पदार्थाः शक्तिविशेषलाभेनाौज्ज्वल्यं भजन्ते । अतस्तदीये चक्षुषी
सर्वान्पदार्थानुज्ज्वलयतः । तथा तस्मिन्नृतौ सर्वे पदार्थाः शान्ता उपद्रवरहिता भवन्ति ।
अतस्तदीये चक्षुषी सर्वान्पदार्थानुपशमयत: । ईदृशेन लक्षणेन वर्षर्तुरवगन्तव्य इत्यर्थः ।
तैरेतैरेकादशभिर्मन्त्रैरिष्टका उपधेयाः ।
अथ ब्राह्मणमुच्यते—
याः प्र॒तिति॑ष्ठन्ति । सं॒व॒त्स॒रे ताः प्रति॑-
तिष्ठन्ति । व॒र्षाभ्य इत्यर्थः (४), इति ।
शृ॒णोत्त्यन्यान्स॒र्वामे॒व षट्त्व॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके
तृतीयोऽनुवाकः ॥ ३ ॥
याः काश्चित्प्रजास्तस्मिन्नृतौ क्षेत्रेषु वीजावापमकृत्वा भ्रꣳश्यन्ते[भ्रश्यन्ति] ताः प्रजा न
केवलं तस्मादृतोरेव भ्रष्टाः किंतु कृत्स्नादपि संवत्सराद्भ्रष्टाः । आगामिवर्षर्तुपर्यन्तमन्नस्य
दुर्लभत्वात् । यास्तु प्रजास्तस्मिन्नृतौ क्षेत्रेषु वीजावापं कृत्वा प्रतिष्ठिता भवन्ति ताः
प्रजा अन्नस्य सुलभत्वात्कृत्स्नेऽपि संवत्सरे प्रतिष्ठिता भवन्ति । यद्यपि या भ्रंश्यन्त॑
१ क. ॰लत्वोप॰ । २ क. ख. ॰कं सस्या॰ । ३ ग. लभन्ते । ४ क. भ्रश्यन्ते । ॰ । क.
ग. ॰पिता भ्रश्य॰ । ख. ॰पिता भ्रं । ६ ख. ग. ॰न्तभिवेत्ये॰ ।