सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 214, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 214

[प्रपा० ३अनु० १८-१९]कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । २११
अथ तृतीयेऽष्टादशोऽनुवाकः ।
अथावगाहने२ विनियुक्तां३मृचमाह—
ई॒युष्टे॒४ ये पूर्व॑तरामप॑श्य॒न्व्यु॒च्छन्ती॑मु॒षसं॒ मर्त्या॑सः । अ॒स्माभि॑रू॒
नु प्र॑ति॒चक्ष्या॑ऽभू॒दो ते य॑न्ति॒ ये अ॑प॒रीषु॒ पश्या॒न्, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठकेऽ-
ष्टादशोऽनुवाकः ॥ १८ ॥
ये मर्त्यासो मनुष्या व्युच्छन्तीं प्रभातं कुर्वतीमुषसमुषःकालदेवतां पूर्वतरामितरे-
भ्योऽत्यन्तं पूर्वामपश्यन्पश्यन्ति, ते मनुष्याँ ईयुस्तां देवतां प्राप्नुवन्ति । [सा] अस्मा-
भिरू नु अस्माँभिरपि नु क्षिप्रं प्रतिचक्ष्याऽभूत्प्रत्यक्षं दर्शनीयाऽभूत् । येऽन्येऽप्य-
परीष्वपररात्रिषु रात्रीणामवसानेषु पश्यान्पश्यन्ति ते ओ यन्ति तेऽपि तां देवतां
सर्वथा प्राप्नुवन्ति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये तृतीयप्रपाठकेऽष्टादशोऽनुवाकः ॥ १८ ॥
अथ तृतीय एकोनविंशोऽनुवाकः ।
अथोपशोषणे९ दाहे विनियुक्तानि यजूंष्याह—
ज्योति॑ष्मतीं त्वा सादयामि ज्योति॑ष्कृतं त्वा सादयामि
ज्योति॒र्विदं॑ त्वा सादयामि भास्व॑तीं त्वा सादयामि
ज्वलं॑तीं त्वा सादयामि मलमला भवं॑तीं त्वा सादयामि
दीप्य॑मानां त्वा सादयामि रोच॑मानां त्वा सादया॒-
म्यज॑स्त्रां त्वा सादयामि बृहज्ज्योति॑षं त्वा सादयामि
बो॒धयं॑तीं त्वा सादया॑मि जाग्र॑तीं त्वा सादयामि, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठक
एकोनविंशोऽनुवाकः ॥ १९ ॥
१ ख. ग. अव्र˚ । २ ग. ˚नेऽष्टादशीमा˚ । ३ ख. ˚क्तामौषसीं द्वितीयाम्˚ । ४ घ.
युष्टे । ५ ग. ˚ष्या इयु˚ । ६ ख. ˚स्माभिः साऽनुक्तं प्र˚ । ७ ग. ˚भिरु नु । ८ क. सर्वदा ।
९ क. ˚णे वि˚ ।