सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 122, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 122

[प्रपा० २ अनु० १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १९५
स्ततपसा युक्ताः सन्तो यथाशास्त्रमनुष्ठितवन्तः । ते मूर्खा असुरा अमुह्यन्मौर्ख्यपार-
वश्येन मोहं प्राप्ताः, मूढाः सन्तः कर्तव्याकर्तव्यं किमपि न प्राजानन् । ततो *यथा-
शास्त्रानुष्ठानाभावात्स्वर्गं न प्राप्ताः । देवास्तु प्रसृतेनैव यज्ञेन स्वर्गं प्राप्ताः, अप्रसृ-
तेन यज्ञेन युक्तानसुरान्पराभावयन् ।
अथ प्रसृताप्रसृतयोः स्वरूपं विभजते२—
प्रसृ॑तो ह वै य॒ज्ञोप॑वीतिनो य॒ज्ञोऽप्र॑सृतोऽनु॑पवीतिनो॒ यत्किंच॑
ब्राह्म॒णो य॒ज्ञोप॑वीत्यधी॒ते यज॑त ए॒व तत्—, इति ।
यज्ञोपवीतयुक्तस्य यो३ यज्ञः सोऽयं गुणाधिक्यात्प्रसृतः प्रकर्षेण वृत्त इत्युच्यते ।
अनुपवीतिनो यज्ञोपवीतरहितस्य यज्ञो गुणहीनत्वादप्रसृत इत्युच्यते । किंच
ब्राह्मणो यज्ञोपवीतयुक्तः सन् यत्किमप्यधीते तत्सर्वं यागानुष्ठानसमं४ भवति ।
तदेवं यज्ञोपवीतं प्रशस्याध्ययनोपयोगं वदन्यज्ञानामङ्गत्वेन विधत्ते--
तस्मा॓द्यज्ञोपवी॒त्ये॑वाधीयीत या॒ज॒ये॒द्यजेत वा य॒ज्ञस्य॒ प्रसृत्यै॑, इति ।
प्रसृतिः प्रकृष्टगुणयुक्तत्वम् ।
यज्ञोपवीतसाधनं द्रव्यं विधत्ते—
अजि॑नं वासो॑ वा दक्षिणत उँप॑वीय—, इति ।
कृष्णाजिनवस्त्रयोरन्यतरद्द्रव्यं दक्षिणभागे लम्बमानं कृत्वाऽधीयीतेत्यर्थः । एवम-
ध्ययनादावनेनैव वाक्येन विहितस्यापि यज्ञोपवीतस्य दर्शपूर्णमासप्रकरणे निवीतं मनु-
ष्याणामित्यत्र पुनर्विधानं तदतिक्रमे तत्रत्याविशेषप्रायश्चित्तार्थम् ।
यज्ञोपवीतप्रसङ्गात्त्रयाणामपि लक्षणं दर्शयति—
दक्षि॑णं बा॒हुमु॒द्धर॑ते॒ऽव॑धत्ते स॒व्यमिति॑ य॒ज्ञोप॑वीतमे॒तद्दे॑व
विप॑रीतं प्राची॑नावीतं५ संवीतं॒ मानु॑षम् ॥ १ ॥, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके
प्रथमोऽनुवाकः ॥ १ ॥
दक्षिणं बाहुमूर्ध्वं धृत्वा१० सव्ये बाहौ लम्बमाने८ सति यद्वेष्टनं तद्यज्ञोपवीतम् ।

  • ते पराभवन्नित्यस्य व्याख्यानं यथाशास्त्रानुष्ठानाभावादिति ।
    १ क. ख. ॰नात्स्व° । २ क ख. विवक्ष्यते । ३ ग. षोऽयं य° । ४ क. प्रसूत । ५ क.
    ॰तं जनमथन्व्य° । ६ ख. ॰नं वि° । ग. उपवीत । ८ क. ख. ॰मने° । ९ क. बद्धते । क.
    द्धने । ग. बध्ते । १० क. कृत्वा ।