तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 924, कुल 940 में से
संदर्भ में पढ़ें१० प्रपाठके ३६ अनुवाकः। ६१५
सरस्वतीमावा॑हया॒मि॒ छन्द॒र्षीनावा॑हया॒मि॒ श्रियमा-
वा॑हया॒मि॒ गायत्रिया गायत्रीच्छन्दो विश्वामित्र ऋषिः
स॑विता देवताऽग्निर्मुखं ब्रह्मा शिरो विष्णुर्हृदयꣳ रुद्रः
शिखा पृथिवी योनिः प्राणापानव्यानोदानसमानाः
सप्राणा श्वेतवर्णा साङ्ख्यायनसगोत्रा गायत्री चतुर्विꣳ-
शत्यक्षरा त्रिपदा॑ षट्कु॒क्षिः पञ्चशीर्षोपनयने वि॑नि-
यो॒गः॒ ॐ॒ भूः । ॐ भुवः । ॐ सुवः । ॐ महः ।
ॐ जनः । ॐ तपः । ॐ सत्यं । ॐ तत्स॑वि॒तुर्वरे॑ण्यं॒
भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया॑त् ।
ओमापो॒ ज्योति॒रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुवः॒ सुवरोम् ॥
अनु० ३५ ।
मूलस्य षट्त्रिंशदनुवाके, गच्छ देवि यथासुखं इति कण्डि-
कायाः परम् स्तुता मयेत्यादि ब्रह्मलोकमित्यन्त एतदनुवाक-
शेषद्विकण्डिकात्मकः पाठो भाष्यकारेण न धृतः । तद्यथा—
स्तु॒ता मया वरदा वेद॒माता॒ प्र॒चो॒दय॑न्ती पव॒ने द्वि-
जाता । आयुः पृथिव्यां द्रविणं ब्रह्म॑व॒र्चसं॒ मह्यं दत्वा
प्रजातुं ब्रह्म॑लो॒कं ॥ अनु० ३६ ॥