सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 912, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 912

१० प्रपाठके ६३ अनुवाकः । ९०१

वाऽस्नातको वा उत्सन्नाग्निरनग्निको वा यदहरेव विरजेत् तदहरेव
प्रव्रजेद्" इति विरक्तानां गार्हस्थ्यमनधिकृतानां पृथक् सन्न्यासवि-
धानात् । न च चक्षुरादिपाटववतामाश्रमान्तरविधिर्भावः०। जा-
बालश्रुतौ प्रत्यक्षविध्युपलम्भात् । "ब्रह्मचर्यं समाप्य गृही भवेत्
गृहाद्वनी भूत्वा प्रव्रजेत्" इति । तस्मादस्त्याश्रमान्तरं ।
तत्रैवान्यच्चिन्तितं ।
"लोककाम्याश्रमी ब्रह्मनिष्ठामर्हति वा नवा ।
यथावकाशं ब्रह्मैव ज्ञातुमर्हत्यवारणात् ॥
अनन्यचित्तता ब्रह्मनिष्ठोऽसौकर्मठे कथं ।
कर्मत्यागी ततो ब्रह्मनिष्ठामर्हति नेतरः" ॥
त्रयो धर्मस्कन्धा इत्यत्राश्रमानधिकृत्य सर्व एते पुण्यलोका
भवन्तीत्याश्रमानुष्ठायिनां पुण्यलोकफलमभिधाय ब्रह्मसंस्थोऽमृ-
तत्वमेतीति मोक्षसाधनत्वेन ब्रह्मनिष्ठा प्रतिपाद्यते । सेयं ब्रह्म-
निष्ठा पुण्यलोककामिन आश्रमिणोऽपि सम्भाव्यते । आश्रमकर्मा-
ण्यनुष्ठाय यथावकाशं ब्रह्मनिष्ठायाः कर्तुं शक्यत्वात् । नहि लोक-
कामी ब्रह्म न जानीयादिति निषेधोऽस्ति । तस्मादस्ति सर्व-
स्याप्याश्रमिणो ब्रह्मनिष्ठेति प्राप्ते ब्रूमः । ब्रह्मनिष्ठा नाम सर्व-
व्यापारपरित्यागे सत्यनन्यचित्ततया ब्रह्मणि परिसमाप्तिः । न
चासौ कर्मठे सम्भवति । कर्मानुष्ठानत्यागयोः परस्परविरोधात् ।
तस्मात् कर्मत्यागिन एव ब्रह्मनिष्ठेति स्थितं । अस्मिन्नर्थे श्रुति-
स्मृतिवाक्यानि सङ्क्षिप्य प्रदर्श्यन्ते ।
"त्याग एव हि सर्वेषां मोक्षसाधनमुत्तमं ।