तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 871, कुल 940 में से
संदर्भ में पढ़ें८६० तैत्तिरीये आरण्यके
द॑देम वि॒दथे॑ सु॒वीरा॑:^{(१)}। ^{(१)}त्वया॒ जुष्ट॑ ऋ॒षिर्भवति
दे॒वि॒ त्वया॒ ब्रह्मा॑ऽऽग॒तश्री॑रु॒त त्वया॑। त्वया॒ जुष्ट॑श्चि॒त्रं
वि॑न्दते॒ वसु॒ सा नो॑ जुषस्व॒ द्रवि॑णेन* मेधे^{(२)}॥
अनु० ३८॥
जुषमाणा:' पुरुषार्थानुपयोगिनो वेदबाह्यान् शब्दान् सेवमाना
वेदैकनिष्ठा:, 'सुवीरा:' शोभनपुत्रशिष्यादिरूपा:, 'विदथे' यज्ञे-
ऽनुष्ठिते सति, शुद्धान्तःकरणा भूत्वा 'बृहद्वदेम' परब्रह्मतत्त्वं
कथयाम ॥
तत्रैव द्वितीयामृचमाह । ^{(१)}“त्वया जुष्टः ० द्रविणेन मेधे”^{(१)}
इति। हे 'देवि' मेधाख्ये, 'त्वया', 'जुष्टः' सेवितोऽनुगृहीतः पुरुषः,
'ऋषिः' अतीन्द्रियदर्शी, 'भवति' । तथा 'त्वया', जुष्टः पुरुषः
'ब्रह्मा' हिरण्यगर्भः, भवति । 'उत' अपि च, त्वया जुष्टः पुरुषः
'आगतश्रीः' प्राप्तसम्पत्, भवति । अतएव 'त्वया जुष्टः', पुरुषः
'चित्रं' गवाश्वभूहिरण्यधान्यादिकं विविधं, 'वसु' धनं, 'विन्दते'
लभते । हे 'मेधे', देवि, 'सा' तादृशी त्वं, 'नः' अस्मान्,
'द्रविणेन' धनेन, 'जुषस्व' सेवस्व, अनुगृह्णाणेत्यर्थः ॥
इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा-
रण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या-
मुपनिषदि ऊनचत्वारिंशोऽनुवाकः ॥
* द्रविणो नेति J, N चिह्नितपुस्तकपाठः ।