सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 844, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 844

१० प्रपाठके १४ अनुवाकः । ८१३

प्रा॒णो लो॑क॒पालः॑ कः किं कं तत्स॒त्यमन्न॑मायु॒रमृ॒तौ*
जी॒वो विश्वः॑ कत॒मः स्व॑य॒म्भु ब्रह्मैतदमृतं† ए॒ष पुरु॑ष
ए॒ष भू॒ताना॒मधि॑पतिः$^{(१)}$ $^{(२)}$ब्रह्म॑णः सायु॒ज्यँ॑ सलो॒क-


'मृत्युः' यमः । 'सत्यादयः सत्यवचनाद्यभिमानिनो देवताविशेषाः ।
'कः' प्रजापतिः । 'किं' इत्यनेन वाचा विशेषनिर्देशानर्हं वस्तु-
जातं विवक्षितं । 'कं' सुखं । 'तत्' शब्देन परोक्षं वस्तु विवक्षितं ।
'सत्यं' अनृतवर्जनं । 'अन्नं' व्रीहियवादिकं । 'आयुः' शतसंवत्सरा-
दिकं । 'अमृतः' मरणरहितः । 'जीवः' चिदात्मा । स च 'विश्वः'
शरीरभेदेनानेकविधः । 'कतमः' अतिशयेन सुखस्वरूपः । 'स्वयम्भु'
कारणान्तरादनुत्पन्नः प्रजापतिः । 'प्रजापतिः' प्रजापालको राजा-
दिः । 'इति' शब्दः प्रदर्शनार्थः । इत्यादिकं सर्वमुदाहरणीयमि-
त्यर्थः । तत्र संवत्सररूपस्य कालस्यादित्येन निष्पादितत्वात् 'संव-
त्सरः', 'आदित्यस्वरूपः । 'य एषः' सर्वात्मकः, 'पुरुषः', सः
'एषः', 'भूतानां' प्राणिनां, 'अधिपतिः' स्वामी ॥

उपास्यगुणानभिधाय फलं दर्शयति । $^{(२)}$"ब्रह्मणः सायुज्यँ ०
य एवं वेद"$^{(२)}$ इति । 'यः' पुमान्, 'एवम्' उक्तप्रकारेण, 'वेद'
उपास्ते, सः पुमान् 'सायुज्यादिफलमाप्नोति । द्विविधमुपासनं,


* मन्नममृत इति B, J, N, O चिह्नितपुस्तकचतुष्टयपाठः ।
† ब्रह्मैतदमृत इति मूलपुस्तकधृतपाठस्य परिवर्त्ते भाष्यपुस्तकत्रय-
गृहीतमूलपाठे 'प्रजापतिः संवत्सर इति संवत्सरोऽसावादित्यो यः'
इति पाठो वर्त्तते ।

5 1 2