सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 817, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 817

८०६ तैत्तिरीये आरण्यके

(६)ह॒ꣳ॒सः शु॑चि॒षदसुरन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑-
थिर्दु॑रोण॒सत्। नृ॒षद्व॑रस॒ह॒तस॒द्व्यो॑मसद॒ब्जा गो॒जा

वदनादित्वाद्युत्पत्तिर्नास्ति। तादृशो जीवो द्विविधः। आसक्तो
विरक्तश्चेति। तयोर्मध्ये ‘एकः’ आसक्तो यो जीवः, पूर्वोक्तामजां
मायां ‘जुषमाणः’ प्रीतिपूर्वकं सेवमानः, ‘अनुशेते’ तदनुसारेणैव
वर्त्तते। विषयानेव भुञ्जानो विवेकरहितो जन्ममरणं प्रवाह-
रूपेण सञ्चरतीत्यर्थः। ‘अन्यो अजः’ विरक्तो जीवः, ‘भुक्त-
भोगां’, ‘एनां’ मायां, ‘जहाति’ परित्यजति। विरक्तेः प्रागेव
भोगान् भुक्त्वा नतूपरिष्टाद्भोग्यन्ते। तादृशैर्भोगैर्युक्ता माया
भुक्तभोगा, तां मायां तत्त्वविवेकेन बाधत इत्यर्थः॥

षष्ठीमृचमाह। (६)“हꣳसः शुचिषत् ० ऋतं बृहत्”(६)
इति। यः पुमान् विवेकेन मायां परित्यजति तस्य सर्वमपि
जगद् ब्रह्मारूपेणावभासत इत्येवमादिऽर्थोऽत्र प्रदृश्यते। तदर्थ-
मादौ जगदनूद्यते। हन्ति सर्वदा गच्छतीति ‘हंसः’ आदित्यः,
स च शुचौ शुद्धे मण्डले ज्योतिर्मये सीदतीति ‘शुचिषत्’,
सूत्रात्मरूपेण जगन्निवासहेतुत्वात्। ‘वसुः’ वायुः, तद्रूपः सन्,
अन्तरिक्षे सीदतीति ‘अन्तरिक्षसत्’। होमनिष्पादक आहव-
नीयाद्यग्निः ‘होता’ तद्रूपेण सोमयागाद्यङ्गभूतायां वेद्यां सीद-
तीति ‘वेदिषत्’। अमावास्यादितिथिविशेषमनपेक्ष्य भोजन-
याञ्चार्थं तत्र तत्र गच्छन् पुरुषो वैदेशिकः ‘अतिथिः’।
तद्रूपेण दुरोणेषु गृहेषु परकीयेषु सीदतीति ‘दुरोणसत्’। नृषु