सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 813, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 813

८०२ तैत्तिरीये आरण्यके

स॒प्तार्च्चिषः॑ स॒मिधः॑ स॒प्त जि॒ह्वाः । स॒प्त इ॒मे लो॒का
येषु॑ चर॒न्ति प्रा॒णा गु॒हाश॑या॒न्निहि॑ताः स॒प्त स॑प्त^(२) ।

'पश्यति' साक्षात्करोति । स चाधिकारः 'धातुः प्रसादात्',
उपजायते । धाता, जगतो विधाता परमेश्वरः, तस्य प्रसादः,
अनुग्रहः । तथा च पूर्वाचार्य्यैरुक्तं । “ईश्वरानुग्रहादेषां पुंसा-
मद्वैतवासना । महाभयकृतत्राणा द्वित्राणां यदि जायते”* इति ।
कीदृशमीशं, 'अक्रतुं' सङ्कल्परहितं, स्त्र्यन्नपानादिभोगजातं समी-
चीनमतिसङ्कल्पनं जीवस्यैव न त्वीशस्य । सङ्कल्पहेतुभूतान्तःकर-
णोपाधेरभावात् । अतो निरुपाधिकत्वात् 'महिमानं' अतिशयेन
महान्तं । ईदृशं परमेश्वरं साक्षात्कृत्य 'वीतशोकः' जन्ममर-
णादिशोकरहितो भवति ॥

द्वितीयामृचमाह । (२)“सप्त प्राणाः प्रभवन्ति ० निहिताः
सप्त सप्त”^(२) इति । शुद्धान्तःकरणैर्ज्ञातव्यो यः परमात्मा उक्तः ।
तत्र शाखाचन्द्रन्यायेनोपलक्षणार्थं जगत्कारणत्वमुच्यते । 'तस्मात्'
परमात्मनो मायाशक्तिविशिष्टात्, 'सप्त प्राणा प्रभवन्ति' । अन्यत्र
सप्त वै शीर्षण्याः प्राणा† इत्युक्तत्वात् । शिरोवर्त्तिसप्तच्छिद्र-
गताः सप्तसङ्ख्याकाश्चक्षुरादयः प्राणाः परमेश्वरादुत्पद्यन्ते । द्वे
चक्षुषी, द्वे श्रोत्रे, द्वे नासिके, मुखमेकमिति सप्तत्वं । तेषां चक्षुरा-
दीनां स्वस्वविषयप्रकाशनशक्तयः 'सप्तार्चिषः' । तैरर्चिभिर्गृह्य-


* द्वित्राणामेव जायते इति Q चिह्नितपुस्तकपाठः ।
† प्राणाः प्राणा इत्युक्तत्वात् इति F चिह्नितपुस्तकपाठः ।