सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 790, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 790

१० प्रपाठके १ अनुवाकः । ७७६

होत् । तन्मे॒ वरु॑णो॒ राजा॑ पा॒णिना॑ ह्यव॒मर्‌श॑तु^{(५१)} ।
^{(५२)}सोऽह॒मपा॑पो वि॒रजो॒ निर्मु॑क्तो मुक्तकि॒ल्बिषः॑ । ना-
क॑स्य पृ॒ष्ठमा॒रुह्य॒ गच्छे॑द्ब्रह्म॑सलोक॒ताम्^{(५२)} । ^{(५३)}यश्चा॒प्सु
वरु॑णः॒ स पु॒नात्व॑घमर्ष॒णः^{(५३)} । ^{(५४)}इ॒मं मे॑ गङ्गे यमुने

लोकतां''^{(५२)} इति । देवपितृमनुष्यादियज्ञमतीत्य भुक्तं 'अत्याशनं' ।
देवर्षिपितृतर्पणमतीत्य पीतमुदकं 'अतीपानं' । उच्चास्त्ववृत्तौ
यः पुमान् तस्मात्, यो 'धनप्रतिग्रहः' । एतैरत्यशनातिपान-
दुष्प्रतिग्रहैः सम्पादितं यत् पापं मे मदीयं, 'तत्' सर्व्वं,
'वरुणो राजा' जलस्वामी, स्वकीयेन 'पाणिना', अपनयतु ॥
ततः पापरहितः 'सोऽहं', रजोगुणरहितः, संसारकारणरागद्वेषादि
दोषात् 'निर्मुक्तः' । अत एव अनुष्ठायमानः पापरहितः स्वर्ग-
स्योपरिभागं, 'आरुह्य', ब्रह्मणा हिरण्यगर्भेण समानभोक्तृत्वं*
'गच्छेत्' गच्छेयं ॥

तीर्थभूतानां गङ्गादिनदीनामावाहनमन्त्रमाह । ^{(५४)}“इमं
मे गङ्गे यमुने ० शृणुह्या सुषोमया”^{(५४)} इति । हे गङ्गाद्या
नद्यः, यूयं, परुष्ण्यादिभिर्नदीभिः सह 'मे' मदीयं, 'इमं'
'स्तोमं' स्तोत्रं, 'शृणुहि' शृणुत । श्रुत्वा तत्र 'आसचत' आगत्य
जले तद्द्वारेण मयि च समवेता भवत । 'गङ्गायमुनासरस्वत्यः',
प्रसिद्धाः । 'शुतुद्रि', इति नद्यन्तरस्य सम्बोधनं । 'मरुद्वृधे',


* समानलोकत्वमिति तै० चिह्नितपुस्तकपाठः ।