सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 779, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 779

०६८ तैत्तिरीये आरण्यके

मिन्द्र॑स्य॒ काम्य॑म् । सनिं॑ मे॒धामया॑सिषं^(२०) । (२१)उद्दी॑प्यस्व
जातवेदो॒ऽपघ्नन्निर्ऋ॑तिं॒ मम॑ ॥ ४ ॥
प॒शूꣳश्च॒ मह्य॒माव॑ह॒ जीव॑नं च॒ दिशो॑ दिश^(२१) ।
(२२)मा नो॑ हिꣳसीज्जातवेदो॒ गामश्वं॒ पुरु॑षं॒ जग॑त् ।

हत्वं, ‘इन्द्रस्य’ देवराजस्य, अपि ‘प्रियं’, मोषन्तर्यामिणं कदा
प्राप्स्यामीत्येवमाशास्ते । अत एव सर्वैरन्यैः ‘काम्यं’ अपेक्षणीयं,
‘सनिं’ कर्म्मफलस्य दातारं, ‘मेधां’ श्रुताधीतग्रन्थधारणशक्तिं,
प्रयच्छन्तमिति शेषः ॥

अथ वह्न्युपाधिकं परमेश्वरं प्रति इष्टप्राप्तिं प्रार्थयते ।
(२१)“उद्दीप्यस्व जातवेदोऽपघ्नं ० जीवनं च दिशो दिश”(२१)
इति । जाते प्राणिशरीरे जाठराग्निरूपेण विद्यते अवतिष्ठते
इति जातवेदाः । अथवा जातानुत्पन्नान् यजमानान् तत्तत्-
फलदानाय वेत्ति स्वचित्ते निश्चिनोतीति जातवेदाः । हे ‘जात-
वेदः’, मदनुग्रहार्थम उत्कर्षेण ‘दीप्यस्व’ । किं कुर्व्वन्, ‘मम’,
अनिष्टकारिणीं ‘निर्ऋतिं’ पापदेवतां, ‘अपघ्नन्’ विनाशयन् । तां
विनाश्य ततो मह्यं ‘पशून्’ गवाद्यादीन्, ‘जीवनं’ दीर्घायुष्यं,
‘च’काराभ्यामन्यदपि सर्व्वं भोग्यजातं ‘आवह’ सम्पादय । ततः
सुखनिवासार्थं ‘दिशः’ प्राच्याद्याः, निवासयोग्यानि तत्तद्दिगन्त-
स्थानानि, ‘दिश’ देहि ॥

सम्पादितानां गवाश्वादीनामविनाशं प्रार्थयते । (२२)“मा नो
हिꣳसीज्जातवेदः ० श्रिया मा परिपातय”(२२) इति । हे ‘जात-