तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 726, कुल 940 में से
संदर्भ में पढ़ें६ प्रपाठके १० अनुवाकः। ७१३
जीव॑न्तु श॒रदः॑ पु॒रूची॒स्तिरो मृ॒त्युं द॑द्महे॒ पर्व॑तेन^{(७)}।
^{(\८)}इ॒मा नारी॑रवि॒धवाः॑ सुपत्नी॒राञ्ज॑नेन स॒र्पिषा॒ सम्मृ॑शन्ताम्। अन॒श्रवो॑ अनमी॒वाः सु॒शेवा॒ आरो॑हन्तु॒ जन॑यो॒ योनि॒मग्रे॑^{(\८)}। ^{(\९)}यद॒ञ्जनं॑ त्रैककु॒दञ्जा॒तःँ हिम-
दद्महे पर्वतेन”^{(७)} इति। ‘इमं’ अश्मानं, ‘जीवेभ्यः’ जीवानाम्अर्थे,
‘परिधिं’ परिधानहेतुं, ‘दधामि’ स्थापयामि। ‘नः’ अस्माकं मध्ये,
‘अपरः’ यः कोऽपि, ‘एतं’ ‘अर्द्धं’ आयुषो भागं, ‘माऽनुगात्’
माऽनुगच्छतु। किन्तु ‘पुरूचीः’ विस्तृतिं गताः, ‘शरदः’ संवत्सरान्,
‘शतं जीवन्तु’। ‘पर्वतेन’ पर्वतसदृशेन पाषाणेन, ‘मृत्युं’, ‘तिरोदद्म-
हे’ तिरोभूतं कुर्मः॥
कल्पः। अथैताः पत्नयो नयने सर्पिषा सम्मृशन्ति, इमा नारी-
रिति। पाठस्तु। ^{(८)}“इमा नारीः ० योनिमग्रे”^{(८)} इति। ‘इमा
नारीः’ एतास्त्रियः, ‘अविधवाः’ वैधव्यरहिताः, ‘सुपत्नीः’ शोभनप-
तियुक्ताः सत्यः, ‘आञ्जनेन’ अञ्जनहेतुना, ‘सर्पिषा’, ‘सम्मृशन्तां’
चक्षुषी संस्पृशन्तु। ‘अनश्रवः’ अश्रुरहिताः, ‘अनमीवाः’ रोगरहिताः,
‘सुशेवाः’ सुष्ठु सेवितुं योग्याः, ‘जनयः’ जायाः, ‘अग्रे’ इतः परं,
‘योनिं’ स्वस्थानं, ‘आरोहन्तु’ प्राप्नुवन्तु॥
कल्पः। कुशतरुणकैस्त्रैककुदेनाञ्जनेनाङ्क्ते, यदाञ्जनमिति।
पाठस्तु। ^{(९)}‘यदाञ्जनं त्रैककुदं ० अरातोर्जम्भयामसि’^{(९)} इति।
4 R 2