सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 718, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 718

६ प्रपाठके ६ अनुवाकः। ७०५

^(२)दूर्वा॑णाँ स्त॒म्बमाह॑रै॒तां प्रि॒यत॑मां॒ मम॑ । इ॒मां दिशं॑ मनु॒ष्या॑णां॒ भूयि॑ष्ठा॒ऽनु विरो॑हतु^(३)। ^(४)काशा॑नाँ स्त॒म्बमाह॑र॒ रक्ष॑सामप॑हत्यै । य ए॒तस्यै॒ दिशः परा॑भवन्नघायव॒ो यथा॒ ते नाभव॒न्पुनः॑^(४)। ^(५)दर्भा॑णाँ स्त॒-

,त्वां,’ ‘ब्रह्माणः’ अभिज्ञा विप्राः, ‘ओषधीनां पय इत्’ सर्वासा-
मोषधीनां सारमेव, ‘विदुः’ जानन्ति । ‘तासां’ ओषधीनां,‘मध्यात्’
सकाशात्, त्वां ‘आदधे’ आनीय स्थापयामि । किमर्थं, ‘चरुभ्यः’
‘अपिधातवे’ चरूणामपिधानार्थं ॥

अथ द्वितीयामाह । ^(३)“दूर्वाणाँ स्तम्बमाहर ० भूयिष्ठाऽनु
विरोहतु”^(३) इति। हे प्रेत ‘दूर्वाणां’, सम्बन्धिनं ‘स्तम्बं’, ‘आहर’
स्वीकुरु । ‘एतां’ दूर्वां, ‘मम’ स्वस्य, ‘प्रियतमां’, विद्धीति शेषः ।
‘मनुष्याणां’, सम्बन्धिनीं ‘इमां’ दक्षिणां, ‘दिशं’, ‘अनु’, सा दूर्वा
‘भूयिष्ठा’ प्रभूता, ‘विरोहतु’ विविधमङ्कुरमुत्पादयतु ॥

अथ तृतीयामाह । ^(४)“काशानाँ स्तम्बमाहर ० यथा ते
नाभवन् पुनः”^(४) इति । हे प्रेत ‘काशा’ख्यानां तृणानां ‘स्तम्बं’,
‘आहर’ स्वीकुरु । किमर्थं, ‘रक्षसामहत्यै’ । ‘एतस्यै’ पश्चिमायाः,
‘दिशः’, ‘अघायवः’ अघं पापमुपद्रवमिच्छन्तः, ‘ये’ वैरिणः,
‘पराभवन्’ पराकर्त्तारः आसन् । ‘ते’ वैरिणः, ‘यथा’, ‘पुनः’,
‘नाभवन्’ न भविष्यन्ति, तथा काशस्तम्बं स्वीकुरु ॥

अथ चतुर्थीमाह । ^(५)“दर्भाणाँ स्तम्बमाहर ० काण्ड-

4 Q 2