तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 684, कुल 940 में से
संदर्भ में पढ़ें६ प्रपाठके ४ अनुवाकः । ६७१
कावति । म॒ण्डूक्या॑सु सङ्ग॒मयेꣳ॑ स्वे॒मग्निꣳ॑ श॑मय॑^(३) । ^(४)शन्ते॑ ध॒न्व॒न्या आप॑:॒ शमु॑ ते सन्त्वनू॒क्या॑: । शन्ते॑ समु॒द्रि-
या आप॑:॒ शमु॑ ते सन्तु वर्ष्या॑:^(४) । ^(५)शन्ते॑ स्रवन्तीस्त॒नु-
वे॒ शमु॑ ते सन्तु कूप्या॑: । शन्ते॑ नीहा॒रो वर्षतु॒ शमु॑ पृ-
ष्ठाऽव॑शीयतां^(५) ॥ १ ॥
शमय”^(३) इति । शीतेन जलेन युक्ता भूमिः, शीतिका, ह्लादका-
रिणा क्षीरेण युक्ता भूमिः, ह्लादुका । हे ‘शीतिके’ भूमे, ‘शीति-
कावति’ शीतिकाभूमियुक्ते स्थाने, ‘मण्डूक्यासु’ मण्डूकप्लवनयोग्यासु
अप्सु, ‘सङ्गमय’ प्रापय । हे ‘ह्लादुके’, ‘ह्लादुकावति’ ह्लादुकायुक्ते
स्थानविशेषे, ‘मण्डूक्यासु’ मण्डूकप्लवनयोग्यासु अप्सु, ‘सङ्गमय’ ‘इमं’
प्रेतदेहं, प्रापय, ‘अग्निं’, च ‘सुष्ठु’ ‘शमय’ ॥
अथ चतुर्थीमाह । ^(४)“शन्ते धन्वन्या आपः ० सन्तु वर्ष्याः”^(४)
इति । धन्वनि मरुदेशे भवाः ‘धन्वन्याः’, तादृश्यः ‘आपः’, हे
प्रेतदेह ‘ते’ तव, ‘शं’ ‘सन्तु’ सुखहेतवो भवन्तु । अनूपदेशे भवाः
‘अनूक्याः’, आपः, ‘शं सन्तु’ सुखहेतव एव भवन्तु । तथा समुद्रे भवाः
‘समुद्रियाः’, वर्षे भवाः ‘वर्ष्याः’, ताः सर्वा अपि ‘ते’, सुखहेतवो
भवन्तु ।
अथ पञ्चमीमाह । ^(५)“शन्ते स्रवन्तीस्तनुवे ० शमु पृष्ठाऽवशी-
यतां”^(५) इति । ‘स्रवन्तीः’ नदीगता आपः हे प्रेत ‘ते’, ‘तनुवे’,
4 M