सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 663, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 663

६५० तैत्तिरीये आरण्यके

आय॑ति^{(१०)}। ^{(११)}पु॒रु॒षस्य॑ सयावरि॒ वि ते॑ प्रा॒णम॑सिस्रसं।
शरी॑रेण म॒हीमि॑हि॒ स्वध॑येहि पि॒तॄनुप॑ प्र॒जया॒ऽस्मानि॒-
हाव॑ह^{(११)}। ^{(१२)}मैवं मा॑ङ्स्ता प्रिये॒ऽहं दे॒वी स॒ती पि॑तृ-


मृतस्य सम्बन्धिनि हे ‘सयावरि’, ‘अघानि’ पापानि, ‘अपैतु’
अपनोद्यैव, ‘मृज्महे’ अस्मान् शोधयामः, “नः” अस्माकं, ‘जरसः’
वयोहानेः, ‘पुरा’, ‘अपरः’ पाप्मा कश्चिदपि, ‘यथा’, ‘नायति’
नागच्छति, तथा मृज्महे इति पूर्वत्रान्वयः ।

कल्पः । अथास्याः प्राणान्विस्रंसमानानानुमन्त्रयते, पुरुषस्य स-
यावरि वि ते प्राणमसिस्रसं । शरीरेण महीमिहि स्वधयेहि पितॄनुप
प्रजयाऽस्मानिहावह इति । (११मन्त्रः) । हे ‘पुरुषस्य’, ‘सयावरि’
राजगवि, ‘ते’ तव, ‘प्राणं’, ‘व्यसिस्रसं’ विस्रस्तं शिथिलं कृत-
वानस्मि । त्वं ‘शरीरेण’, ‘महीं’ भूमिं, ‘इहि’ प्राप्नुहि । ‘स्वधया’
अन्नेन हविःस्वरूपेण, यद्वा अमृतवाची स्वधाशब्दः, अमृतेन
जीवरूपेण, ‘पितॄन्’, ‘उपेहि’ । ‘इह’ अस्मिन् लोके, ‘प्रजया’
पुत्रादिकया सह, ‘अस्मान्’, ‘आवह’ क्षेमं प्रापय ॥

कल्पः । उपोत्थाय* पांसूनवमृशन्ते, मैवं माङ्स्ता प्रियेऽहं
देवी सती पितृलोकं यदेषि । विश्ववारा नभसा संव्ययन्त्युभौ नो
लोकौ पयसाऽभ्यावृत्स्व इति । (१२मन्त्रः ।) हे ‘प्रिये’ राजगवि,
‘अहं’, ‘एवं’ हतास्मीति, ‘मा माङ्स्ता’ मनसि मननं मा कार्षीः,


* उदादायेति E चिह्नितपुस्तकपाठः ।