तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 649, कुल 940 में से
संदर्भ में पढ़ें६३६ तैत्तिरीये आरण्यके
य॑ति । उदु॒ त्यं चि॒त्रमिति॑ सौरीभ्या॑मृ॒ग्भ्यां पुन॒रेत्य॑
गार्ह॑पत्ये जुहोति । अ॒यं वै लो॒को गार्ह॑पत्यः । अ॒स्मि-
न्ने॒व लो॒के प्रति॑तिष्ठति । अ॒सौ खलु॒ वा आ॑दि॒त्यः सु॑-
व॒र्गो लो॒कः । यत् सौरी भवत॑ः । तेनैव सु॑व॒र्गाँ -
ल्लो॒कान्नैति॑^(२८) ॥ ११ ॥
ब्रह्म॑णस्त्वा पर॒स्ताया इत्या॑ह(१), दधा॑ति(२),
अ॒न्वि॒त्य॑(३), रक्ष॒स्वी रक्ष॑सा॒मप॑हत्यै(४), व॒ हिर॑-
ण्यं(५), आ॒ह(६), अ॒र्द्धय॑ति॒(७), ह्येषः(८), गृ॒णात्वि-
त्या॑ह(९), मनु॒ष्या॑नि॒त्या॑ह(१०), अ॒स्यैषः(११), अ॑ष्टौ
च॑ ॥ अनु० ९ ॥
अथ दशमोऽनुवाकः ।
$^{(१)}$प्र॒जाप॑तिं॒ वै दे॒वाः शु॒क्रं पयो॑ऽदुहन् । तदैभ्यो॒ न
व्य॑भवत् । तद्भू॒र्त्य॑करोत् । तानि॒ शु॒क्रियाणि॒ सामा॑-
न्यभवन् । तेषां॒ यो रसोऽत्य॑क्षरत् । तानि॑ शुक्रयजूँ-
ष्य॑भवन् । शु॒क्रियाणां॒ वा ए॒तानि॒ शु॒क्रियाणि । सा॒म-
पय॑सं वा ए॒तयो॑र॒न्यत् । दे॒वाना॑म॒न्यत् पय॑ः । यद्
गोः पय॑ः ॥ १ ॥
१ एतन्मन्त्रस्य भाष्यं ५१६ पृष्ठे द्रष्टव्यं ।