तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 586, कुल 940 में से
संदर्भ में पढ़ें४ प्रपाठके ४२ अनुवाकः ५७३
वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व
मा॒तरः॑ ।^{(२३)}। ^{(२४)}तस्मा॒ अर॑ङ्गमाम वो॒ यस्य॒ क्षया॑य॒ जि-
न्व॑थ ॥ ४ ॥
आपो॑ जनय॑था च नः^{(२४)}। ^{(२५)}पृ॒थि॒वी शा॒न्ता
साऽग्निना॑ शा॒न्ता सा मे॑ शा॒न्ता शुच॑ग्ं शमयतु^{(२५)}।
तमः सुखैकहेतुः, यो 'रसः', अस्ति । 'इह', अस्मिन् कर्मणि,
'नः' अस्मान्, 'तस्य', 'भाजयत' रसं प्रापयत । तत्र दृष्टान्तः,
'उशतीरिव मातरः' इति, कामयमानाः प्रीतियुक्ता मातरो यथा
स्वकीयस्तन्यरसं प्रापयन्ति तद्वत् ॥
अथ चतुर्विंशं मन्त्रमाह । ^{(२४)}“तस्मा अरङ्गमाम ॰ जनयथा
च नः”^{(२४)} इति । 'यस्य' रसस्य, 'क्षयाय' क्षयेण निवासेन, 'जि-
न्वथ' यूयं प्रीता भवथ, 'तस्मै' रसाय, 'वः' युष्मान्, 'अरङ्गमाम'
अलं भृशं प्राप्नुमः । किञ्च, हे 'आपः', यूयं 'नः' अस्मान्, 'जनयथ'
प्रजोत्पादकान् कुरुत ॥
अथ पञ्चविंशं मन्त्रमाह । ^{(२५)}“पृथिवी शान्ता ॰ शुचग्ं
शमयतु”^{(२५)}, इति । येयं 'पृथिवी', देवता, 'सा', इयं 'शान्ता'
सर्वोपद्रवशमनयुक्ता, न केवलं स्वयमेव किन्तु 'अग्निना', देवेन
सह, 'शान्ता' । तादृशी 'शान्ता', देवता, 'मे' मम, 'शुचं' शोकं,
'शमयतु' शान्तं करोतु ॥