तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 575, कुल 940 में से
संदर्भ में पढ़ें५६२ तैत्तिरीये आरण्यके
तन्मे॑ राध्यताम्^(५) । ^{(६)}द्यौः स॒मित् । तामा॑दि॒त्यः स-
मि॑न्धे । साऽऽदि॒त्यꣳ स॑मिन्धे । ताम॒हꣳ स॑मिन्धे । सा
मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा ॥ ४ ॥
वर्च॑सा॒ श्रिया॑ । यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒न्नाद्ये॑न॒
समि॑न्ताꣳ स्वाहा॑ । अ॒न्तरि॑क्षꣳ स॒मित् । तां वा॒युः स-
मि॑न्धे । सा वा॒युꣳस॑मिन्धे । ताम॒हꣳ स॑मिन्धे । सा मा॒
समि॑द्धा । आयु॑षा॒ तेज॑सा । वर्च॑सा॒ श्रिया ॥ ५ ॥
यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒न्नाद्ये॑न॒ समि॑न्ताꣳ स्वाहा॑ ।
पृ॒थि॒वी स॒मित् । ताम॒ग्निः स॑मिन्धे । साऽग्निꣳ स-
मि॑न्धे । ताम॒हꣳ स॑मिन्धे । सा मा॒ समि॑द्धा । आ-
यु॑षा॒ तेज॑सा । वर्च॑सा॒ श्रिया॑ । यश॑सा ब्रह्मवर्च॒सेन॑ ॥
मोत्यादिकमनुषज्यते । एतदर्थमेव चतुर्थमन्त्रे पुनराम्नातं । व्रतपत
इत्युक्तस्य पुनरपि व्रतानामित्युक्तिः कृत्स्नव्रतस्वीकारार्था ॥
कल्पः । आवृत्तैर्मन्त्रैः समिध आधाय आवृत्तैर्देवता उपस्था-
येति । पाठस्तु । ^{(६)}"द्यौः समित् • तदशकं तन्मे राधि"^{(१)} इति ।
व्रतावसाने कर्त्तव्यत्वात् 'अचारिषं', इत्यादिभूतार्थवाचिशब्दप्रयोगः।
तद्धि चतुर्षु वेदव्रतेषु सौम्यव्रतमित्यभिधीयते । एतस्य प्रवर्ग्याङ्ग-
त्वाभावेपि शुक्रीयकाण्डोक्तमन्त्रसापेक्षत्वात् अत्राम्नातं । एतच्च