सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 547, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 547

५३४ तैत्तिरीये आरण्यके

रा॒त्राणी॑ष्ट॒काः । तस्य॑ ते॒ मासा॑श्चार्द्धमा॒साश्च॑ कल्पन्तां ।
ऋ॒तव॑स्ते कल्पन्तां । सं॒व॒त्स॒रस्ते॑ कल्पतां । अहो॑-
रा॒त्राणि॑ ते कल्पन्तां । एति॒ प्रेति॒ वीति॒ समि॒त्युदि॑ति ।
प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वः
सी॑द ॥ अनु० १८ ॥


'वैश्वानरः' विश्वेषां नराणां उपकारकः, 'असि' । प्रभवादी-
नामेकैकपञ्चके वर्त्तमानाः शब्दाः* संवत्सरादयः, सर्व्वेष्वनुगतो
वत्सरः, त्वमेवं षड्विधः 'असि'। 'तस्य' तथाविधस्य, 'ते'
ऊर्ज्जरूपस्य, वसन्ताद्यृतवः 'शिरः' आद्यवयवाः, चैत्रादिमा-
सेषु ये शुक्लपक्षाः ते चितिरूपाः । ये च कृष्णपक्षाः ते
पुरीषरूपाः । यान्यहोरात्राणि तानीष्टकारूपाणि । 'तस्य ते'
तादृशस्य तव, मासादयः स्वस्वकार्य्यक्षमा भवन्तु । इतिशब्द-
शिरस्काः आ,प्र,वि,सम्,उद्ः, उपसर्गाः अत्र निर्द्दिष्टाः, तैरू-
चितक्रियां संयोज्य अग्निहोत्रं स्तोतव्यं† इति तात्पर्यार्थः ।
उचितक्रियाणां च बहूनां सम्भवात् महती स्तुतिः सम्पद्यते ।
प्रजापतिरित्यादि पूर्व्ववत् । अग्निविशेषणत्वाद् ध्रुव इति लिङ्ग-
निर्देशः ॥

इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा-
रण्यके चतुर्थप्रपाठके एकोनविंशोऽनुवाकः ॥ १९ ॥


* शब्दा इति E चिह्नितपुस्तकपाठः।
† अग्निस्तोतव्य इति D, E चिह्नितपुस्तकद्वयपाठः।