सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 531, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 531

५१८ तैत्तिरीये आरण्यके

(२४)उद्वयं॒ तम॑स॒स्परि॑ । उदु॒ त्यं चि॒त्रं(२४) । (२५)इ॒ममूं॒षु

स्मै भूयासुर्योऽस्मान् द्वेष्टि यञ्च वयं द्विष्म इत्याह । अभि-
चार एवाश्लेषः”॥ इति । (५ प्र०।६ अ०।३७ म०) ॥

कल्पः । उद्वयं तमसस्परीत्यादित्यमुपस्थायोदु त्यं चित्र-
मिति द्वाभ्यां गार्हपत्ये जुहोत्युपतिष्ठते इति । उद्वयमिति
मन्त्रः, समास्त्वाग्न इत्यनुवाके व्याख्यातः । उदु त्यं जातवेदसं
चित्रं देवानामिति मन्त्रद्वयं उदु त्यमित्यनुवाके व्याख्यातं ।

एतन्मन्त्रद्वयसाध्यहोमं विधत्ते । “प्र वा एषोऽस्माँल्लोका-
च्च्यवते । यः प्रवर्ग्यमुद्वासयति । उदु त्यं चित्रमिति सौरी-
भ्यामृग्भ्यां पुनरेत्य गार्हपत्ये जुहोति । अयं वै लोको
गार्हपत्यः । अस्मिन्नेव लोके प्रतितिष्ठति । असौ खलु वा आ-
दित्यः सुवर्गो लोकः । यत् सौरी भवतः । तेनैव सुवर्गाँल्लोका-
न्नैति*”॥११॥ इति । (५ प्र०।६ अ०।३८ म०) । प्रवर्ग्यस्योद्वासनेन
स्वयमेव ‘अस्माँल्लोकात्’, भ्रष्टो भवति । गार्हपत्यस्यैतल्लोकरूप-
त्वेन तत्र होमे सति स्वयं ‘अस्मिन्’, लोके, प्रतिष्ठितो भवति ।
आदित्यस्य स्वर्गलोकरूपत्वात् सौरमन्त्रेण स्वर्गादपि भ्रंशो
न भवति ।

ब्रह्मणस्वा परस्याया इत्याह, दधाति, अन्वित्य, रक्षसो
रक्षसामपहत्यै, वै हिरण्यं, आह, अङ्क्‌यति, श्लेष, गृणालित्याह,
मनुष्यानित्याह, अश्लेषः, अष्टौ च ॥

इति माधवीये पञ्चमप्रपाठके नवमोऽनुवाकः ॥ ९ ॥


* लोकान्नवैति इति H, F, चि. कृतपुस्तकद्वयपाठः ।