तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 525, कुल 940 में से
संदर्भ में पढ़ें५१२ तैत्तिरीये आरण्यके
सोम॑गन्ध॒र्व्वं । आपो॑ ददृशुषी॑: । ऋ॒तेना॑व्यायन् ।
तद॒न्ववै॑त् । इन्द्रो॑ रारहा॒ण आ॑सां । परि॒ सूर्य्य॑स्य*
योनिरित्याह । स्वामेवैनं योनिं गमयति ।” इति । (५ प्र० ।
८ अनु० । २७ म०) । समुद्रादिकं जगत्कर्म्मरूपां, स्वकीयां 'योनिं',
प्रापयति । यद्वा समुद्रो योनैर्यस्य प्रवर्ग्यस्येति बहुव्रीहिः,
समुद्रसदृशः परमात्मा तस्य कारणं, ततो मन्त्रपाठेन स्व-
कीययोनिप्राप्तिः ॥
वैकल्यप्रयुक्तहिंसापरिहारार्थतां नमस्कारस्य दर्शयति ।
“नमस्ते अस्तु मा मा हिंसीरित्याहाहिंसायै” । इति ।
(५ प्र० । ८ अ० । २८ म०) ॥
षष्ठं मन्त्रमाह । $^{(१२)}$“विश्वावसुर् सोमगन्धर्व्वं ० परिसूर्य्यस्य
परिधीँ रपश्यत्”$^{(१८)}$ इति। सोमस्य परिमोषको गन्धर्व्वः 'सोम-
गन्धर्व्वः' । स च ‘विश्वावसु'नामकः, अतएव सोमप्रकरणे श्रूय-
ते, तर् सोममाह्रियमाणं गन्धर्व्वो विश्वावसुः पर्य्यमुष्णादिति ।
सोमस्यापहर्त्तारं तं, 'विश्वावसुं', 'आपो ददृशुषीः' अब्दे-
वता दृष्टवत्यः, ताश्चाब्देवताः ‘ऋतेन’ यज्ञेन निमित्तेन, ‘तत्’
तदा, ‘अव्यायन्’ विशेषेण गन्धर्व्वसमीपं प्रत्यागच्छन्, 'इन्द्रः',
देवः, ‘तत्’ अपां गमनं, ‘अन्ववैत्’ अनुक्रमेण ज्ञातवान्, स च
इन्द्रः, ‘आसां' अपां समीपे, ‘रारहाणः' भृशं गच्छन्, 'सूर्य्यस्य',
* B चिह्नितपुस्तके परिसूर्य्यस्य इति पाठो नास्ति ।