सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 518, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 518

४ प्रपाठक ११ अनुवाकः । ५१३

परिधीँ॒रप॑श्यत्^(१८) । ^(१९)विश्वाव॑सुर॒भि तन्नो॑ गृणा-
तु । दि॒व्यो ग॑न्ध॒र्व्वो रज॑सो वि॒मान॑: । यद्धा॒द्य स॒त्य-
मु॒त यन्न वि॒द्म ॥ ७ ॥

‘परिधीन्’ परिधिसदृशान्, दम्याभिमानिनो देवान्, ‘पर्य्य-
पश्यत्’ परितो वेष्टयितॄन् अवलोकितवान् । यदा गन्धर्व्वः
सोमं मुष्णाति तदानीमापो दृष्ट्वा तत्र गताः, इन्द्रश्च तद-
भिज्ञाय अपां सहायार्थं गन्धर्व्वमवरोद्धुं सूर्य्यरश्मीन् प्रेषित-
वानित्यर्थः ॥

विश्वावसुवृत्तान्तस्मरणस्य विकलाङ्गसमाधानार्थत्वं दर्श-
यति । “विश्वावसुꣳ सोमगन्धर्व्वमित्याह । यदेवास्य क्रिय-
माणस्यान्र्तयन्ति । तदेवास्यैतेनाप्याययति* ।” इति । (५ प्र० ।
अ० । २६ म०) । अनुष्ठीयमानस्य प्रवर्ग्यस्य ‘यत्’ अङ्गम्, ऋत्विजः
अन्तर्हितं कुर्व्वन्ति, ‘तत्’ अङ्गं, ‘एतेन’ वृत्तान्तस्मरणेन, समृद्धं
करोति । गन्धर्वेणापादितस्य वैकल्यस्याद्भिरिन्द्रेण च समा-
हितत्वात्तदनुस्मरणस्य समाधानार्थत्वं युक्तं ॥

सप्तमं मन्त्रमाह। ^(१९)“विश्वावसुरभि तन्नो गृणातु । • धियो
हिन्वानो धिय इन्नो अव्यात् ।”^(१९) इति। अस्मिन् कर्म्मणि ‘यद्धाद्य’
यदेव किञ्चिदङ्गं यथाशास्त्रं अनुष्ठितं, ‘उत’ अपि च, ‘यत्’
अङ्गम्, ‘न विद्म’ वयं विस्मृतवन्तः, ‘तत्’-सर्व्वं, ‘नः’ अस्मभ्यं,


* काप्यायति इति F, H, चिह्नितपुस्तकद्वयपाठः ।

3 s 2