तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 461, कुल 940 में से
संदर्भ में पढ़ें४५६ | तैत्तिरीये आरण्यके
एता वै होत्राः । होत्राभिरेव यज्ञस्य शिरः प्रतिदधाति ॥
॥१०॥ इति । (५ प्र०।६ अ०।३४ म०) । यदा धनुःकोट्या
यज्ञपुरुषस्य, 'शिरः' छिन्नं तदा 'देवाः' तत् 'शिरः' 'होत्राभिः'
यज्ञशरीरे प्रतिष्ठितवन्तः होमनिष्पादिका ऋत्विजां याः
प्रत्यवेक्षणादि*क्रियाः, 'एताः' एव 'होत्राः' तस्मादृत्त्विजामवे-
क्षणेन 'होत्राभिरेव' 'यज्ञस्य शिरः' प्रतिष्ठितं भवति ॥
अग्निश्रेष्ठ्यादिमन्त्रैरुपस्थानादूर्द्धकालीनत्वमवेक्षणस्य विध-
त्ते । "रुचितमवेक्षन्ते । रुचिताद्वै प्रजापतिः प्रजा असृजत ।
प्रजानाग् सृष्ट्यै†" इति । (५ प्र०।६ अ०।३५ म०) । रुचिधात्वर्थ-
प्रतिपादकैः अग्निश्रेष्ठ्यादिकैर्मन्त्रैरभिमन्त्रितो महावीरो रु-
चितः तादृशं पश्चादवेक्षेरन्, पुरा 'प्रजापतिः' प्रवर्यात्, 'रुचि-
तात्' एव 'प्रजाः' सृष्टवान्, अतोऽचापि 'सृष्ट्यै' तद्भवति ॥
पूर्वोक्तमेवानूद्य पुनः प्रशंसति । "रुचितमवेक्षन्ते । रुचि-
ताद्वै पर्जन्यो वर्षति । वर्षुकः पर्जन्यो भवति । सं प्रजा वर्द्धन्ते"
इति । (५ प्र०।६ अ०।३६ म०) पूर्वोक्तात् 'रुचितात्' प्रवर्यादेव
कर्मानुष्ठानद्वारादित्यप्राप्त्या मेघः 'वर्षति' अतोऽचापि रुचिता-
वेक्षणे 'पर्जन्यः' वर्षणशीलः, 'भवति', 'प्रजाः' च सम्यग्वर्द्धन्ते ॥
पुनरपि प्रकारान्तरेण प्रशंसति । "रुचितमवेक्षन्ते । रुचि-
तं वै ब्रह्मवर्चसं । ब्रह्मवर्चसिनो भवन्ति" ॥११॥ इति । (५ प्र०।
६ अ०।३७ म०) । 'ब्रह्मवर्चसं' श्रुताध्ययनसम्पत्तिः, 'रुचितं'
* अवेक्षणादि इति तै० पु० पाठः
† सृष्ट्यैतत् इति तै० पु० पाठः ।