तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 448, कुल 940 में से
संदर्भ में पढ़ें४ प्रपाठके ७ अनुवाकः । ४४३
अग्निष्टोमः प्रथमयज्ञोऽतिरात्रमेके पूर्व्वं समामनन्तीति ॥
पुरस्तादुपसदामितिवाक्येनोक्तोऽप्युपमङ्गावात् पूर्व्वं प्रवर्ग्य-
स्यापि प्राप्तौ निषेधयति । “नोक्थे प्रवृञ्ज्यात् । प्रजा वै पशव
उक्थानि । यदुक्थे प्रवृञ्ज्यात् । प्रजां पशूनस्य निर्द्दहेत्”
इति । (५ प्र० । ६ अ० । ८ म०) । एह्योषु ब्रवाणीत्यादोतिशस्त्रा-
ण्यत्रोक्थशब्देनाभिधीयन्ते तान्यर्हतीत्युक्थ्यः क्रतुः तत्र प्रवृञ्ज-
नेनोक्थशस्त्रसाध्याः ‘प्रजाः’ ‘पशवः’ च दह्येयुः, तस्मात् तत्र,
‘न’ ‘प्रवृञ्ज्यात्’ ॥
उक्थ्यविशेषे प्रतिप्रसवं विधत्ते । “विश्वजिति सर्व्वपृष्ठे प्रवृ-
णक्ति ॥ ३ ॥ पृष्ठानि वा अच्युतं च्यावयन्ति । पृष्ठैरेवास्मा
अच्युतं च्यावयित्वावरुन्धे” इति । (५ प्र० । ६ अ० । ९ म०) ।
रथन्तरबृहद्वैरूपवैराजशाक्कररैवतसामसाध्यानि पृष्ठस्तोत्राणि
सर्व्वाण्यपि यस्मिन् विश्वजिद्यागे विद्यन्ते । सोऽयं सर्व्वपृष्ठः,
यद्यपि विश्वजिदुक्थ्यसंस्थो नात्र प्रसिद्धः तथापि शाखा-
न्तरे तत्सद्भावमभिप्रेत्य नोक्थे ‘प्रवृञ्ज्यादिति निषेधं वार-
यितुं पुनर्विधिः सर्व्वत्र पृष्ठस्तोत्राणि, ‘अच्युतं’ न च्युतमपि
दोषं । ‘च्यावयन्ति’ विनाशयन्ति, अत्रापि पृष्ठस्तोत्रैरेव ‘अच्युतं’
निषेधप्रयुक्तं प्रवलमपि दोषं, ‘च्यावयित्वा’ प्रवर्ग्यफलमपि
प्राप्नोति ॥
तदेवं बुद्धिस्थं प्रवर्ग्यविधिविचारं परिसमाप्य प्रकृतस्यैव
मन्त्रस्य प्रथमपादे पूर्व्वभागं* व्याचष्टे । “अपश्यं गोपामित्याह ।
* पूर्व्वपादं इति तै० पु० पाठः ।