तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 392, कुल 940 में से
संदर्भ में पढ़ें४ प्रपाठके २ अनुवाकः । ३८१
^{(९)}इ॒यत्यग्र॑ आसीः^{(९)} । ^{(१०)}ऋ॒ध्यास॑म॒द्य । म॒खस्य॒
यज्ञस्य शिरः संभरति । तूष्णीं चतुर्थम् हरति । अपरिमता-
देव यज्ञस्य शिरः संभरति” इति। (५ प्र० । २ अ० । १४ म०) ॥
वक्ष्यमाणसम्भारभ्यो मृदः प्राथम्यं विधत्ते । “मृत्खना-
दग्रे हरति । तस्मान् मृत्खनः करुष्णतमः” इति (५ प्र० । २
अ० । १५ म०) । ये च वराहविहतादयः सम्भाराः तेभ्यः ‘अग्रे’
प्रथममेव, मृदं खात्वा तस्मात् ‘मृत्खनात्’ गर्त्तात्, मृदं हरेत् ।
यस्मादयं ‘मृत्खनः’, स्वकीयां वेदनामगणयित्वा यजमानोप-
कारार्थं मृदं प्रयच्छति । तस्मादयमतिशयेन ‘करुणः’ कृपालुः,
ततो मृत्खनादेव मृदं हरेत् । न त्वन्यतो यतः कुतश्चित्
मृदानेया ॥
कल्पः । एवमितरसम्भारानभिमन्त्रणेऽधिकारः, इयत्यग्र
आसीरिति वराहविहतमिति । येन प्रकारेण मृदो हरण-
मुक्तं । तेनैव प्रकारेणेतरे सर्वे सम्भाराः सम्पादनीयाः । अ-
भिमन्त्रणे तु तत्र तत्र मन्त्रविशेषोऽस्ति । ‘देवी द्यावापृथिवी’
इति पूर्वत्र मृदोऽभिमन्त्रणं । ^{(९)}“इयत्यग्र आसीः”^{(९)} इति
मन्त्रः । वराहो दंष्ट्रया यं मृद्विशेषं सम्पादयति तन्मृत्स्वरूपं
वराहविहतं । हे वराहविहत ‘इयत्यग्रे’ एतावर्ति पुरोदेशे
त्वं ‘आसीः’ ॥
अभिमन्त्रितस्य वराहविहतस्याहरणे मन्त्रान् दर्शयति ।